SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका' सु. ९९ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् मनोरमं नन्दनवनप्रकाश नन्दनवन सदृश, शुभसुरभिशीतलया शुभा = सुखावहत्वेन शुभां सुरभिः = मनोज्ञा शीतला = शीतस्पर्श युक्त, पदत्रयस्य कर्मधारयः तथाभूतया छायया सर्वत एव = सर्व प्रदेशावच्छेदेनैव समनुद्धां = युक्तां मासादीयां यावत् प्रतिरूपां चासीत् । तत्र खलु श्वेतविकार्या नग प्रदेशी नाम राजा आसीत् । स प्रदेशी राजा महाहिमवन्महामलय मन्दर महेन्द्रसारो यावद विहरति । प्रदेशिराजस्य सकलं वर्णनमोपपातिकसूत्रकृणिकराजवद् वोध्यम् । स प्रदेशी राजा तु अधार्मिकः- धर्मेण चरति धार्मिकः, न धार्मिको धार्मिक-अधर्माचारी, अधार्मिकस्तु सामान्यधर्माचरणेनापि भवति, . अत: आह- अधर्मिष्ठ इति । अधर्मिष्ठः = सातिशयाधर्माचरणशीलः, अख्यातिः - अधर्मेण ख्यातिर्यस्य स तथा अधर्म द्वारैव जंगति प्रसिद्धिं गतः, अधर्मानुगः- अधर्मम् अनुगच्छतीति- अधर्मानुगः- अधर्मातु: यायी, अधर्म मलोकी-अधर्म मेव मलोकते = निरन्तर विचारयति यः सः-अधर्मविषयक विचारपरायणः, अधम प्रजनन :- अधर्ममेव प्रकर्षेण जनयति उत्पादयति लोकेषु यः सः प्रजास्वपि अधर्मभावोत्पादक इत्यर्थ:, तथा अधर्म शील समुदाचारः- अधर्म एवं शीलं = स्वभावः समुदाचारः =अनुष्ठानं च यस्थ स तथा अधर्म मयस्वभाययुक्तः अधर्मानुष्ठानपरायणश्चेत्यर्थः, तथा अधमेंणैव वृत्तिं =जीविकां कल्पयन् कुर्वन्, तथा - जीवान् प्रति जहि = मारय, छिन्धि= विदारय भिन्धि=द्विधाकुरु' इत्यादि वाक्यैः प्रवर्त्तकः =स्वाश्रितान् जनान् प्रवर्त्त - . यिता, अतएव - लोहितपाणिरकखरष्टितहस्तः, पापः = पापस्वरूपः - सर्वदा पापपरायणत्वात्, चण्डः=चण्डस्वरूपः- तीव्रतरकोपावेशात् रौद्रः =भयानक:= त्वात्, क्षुद्र = तुच्छबुद्धित्वात् साहसिका = सहसा कर्म करणशीलः - असमीक्षितकारित्वात्, तथा उत्कञ्चन - वञ्चन-माया - निकृति - कूट-कपट - सांतिसम्प्रयोगबहुल:- तत्र - उत्कश्चनम् = उत्कोचग्रहणम्, 'उत्कोच: ' - 'लाच' इति भाषा 1=क्रूररूप टीकार्थ - इसका, मूलार्थ - जैसा ही है-श्वेतविक नगरी का वर्णन औरपातिकसूत्र में वर्णित चंपानगरी जैसा ही जानना चाहियेयही बात यहां यावत्पद से प्रकट की गई है तथा प्रदेशी राजा का भी वर्णन औपपातिकसूत्र में वर्णित हुए कूणिक राजा के जैसा ही समझना । सू. ९९ ॥ ટીકા :-મૂલા પ્રમાણે જ છે. શ્વેતવિકા નગરીનુ વર્ણન ઔપપાતિક સૂત્રમાં વ ંત ચંપાનગરી જેવું જ સમજવું જોઈએ. યાવત પદથી એજ વાત અહીં સ્પષ્ટ કરવામાં આવી છે. તેમજ પ્રદેશી રાજાનુ` વન પણુ ઔપપાતિક સંત્રમાં વર્ણિત ટ્રૅણિક રાજા જેવું જ સમજવું જોઇએ. પ્રસૂ॰ ા
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy