SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २९७ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ६६ विजयदेवाभिषेकवर्णनम् विजयस्त देवस्स विजयाए रायहाणीए अन्नेसिं च बहूणं विजयहाणी वत्थव्वगाणं वाणमंतराणं देवाणं देवीण य आहे वच्चं जाव आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहराहि चिकट्टु महया महया सदेणं जयजयसदं परंजंति ॥ सू० ६६ ॥ छाया - ततः खलु तं विजयं देवं चखारि च सामानिकसहस्राणि चतस्रोऽग्रमहिष्यः सपरिवाराः तिस्रः परिषदः सप्ताऽऽनीकानि सप्तानीकाधिपतयः पोडशात्मरक्षकदेवसहस्राणि अन्ये च बहवो विजयराजधानी वास्तव्या वाणमन्तरा देवादेव्यश्च तैः स्वाभाविकै रुत्तरवैकुर्धिकैथ वरकमलप्रतिष्ठानैः सुरभिवरवारि परिपूर्ण-वन्दनकृतचचकैः आविद्धकण्ठेगुणैः पद्मोत्पलपिधानैः करतलसुकुमालकोमलपरिगृहीतैः अष्टसहस्राणां सौवर्णिककलशानां रूप्यमयाणां तावत् यावद् अष्टसहस्राणां भौमेयकलशानाम्, सर्वोषधीभिः सर्वमृत्तिकाभिः सर्वर्तुवरैः सर्वपुष्पैः यावत्सर्वौषधि सवार्थसिद्धकैः सर्वऋद्धया सर्वद्युत्या सर्ववलेन सर्वसमुदयेन सर्वादरेण सर्वविभूत्या सर्वविभूपया सर्वसंभ्रमेण सर्वारोहेण सर्वनाटकैः सर्व पुष्पगन्धमाल्यालङ्कारविभूषया सर्वदिव्यत्रुटितनिनादेन, महन्त्या ऋद्धचा, महत्या शुत्या, महता बलेन महता समुदयेन महता त्रुटितयमकसमक पटु प्रवादितरवेण शंख पण पटह भेरी झल्लरी खरमुखी मृदङ्ग दुन्दुभि हुडुक्क निर्घोष सन्निनादितरवेण महता इन्द्राभिषेकेण अभिसिञ्चन्ति । तस्य खलु विजयस्य देवस्य महता महता इन्द्राभिषेके वर्त्तमाने - अप्येकका देवा नात्युदकं नातिमृत्तिकं प्रविरलस्पृष्टं दिव्यं सुरभि रजोरेणुविनाशनं गन्धोदकवर्षे वर्षन्ति, अप्येकका देवा निहतरजसं नष्टरजसं भ्रष्टरजसं - प्रशान्तरजसमुपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानीं सर्वाऽऽभ्यन्तर - बाह्यामासिक्त = सम्मार्जितो - पलिप्ताम् - सिक्त - शुचि - सम्मृष्टरथ्यान्तराऽऽपण–वीथिकां कुर्वन्ति, अप्येकका देवाः विजयां राजधानी- मञ्चाऽतिमञ्चकलितां कुर्वन्ति, अप्येकका देवा विजयां राजधानीं नानाविधरागरञ्जितोच्छ्रित जयविजय वैजयन्ती पताकाऽतिपताकमण्डितां कुर्वन्ति, अप्येकका देवा विजयां राजधानीं गोशीर्षरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलां कुर्वन्ति - अप्येकका देवा विजयां राजधानीमुपचितचन्दनकलशां चन्दनघटकृत तोरणप्रतिद्वार देशभागां कुर्वन्ति, अप्येकका देवा विजयां राजधानीम् - आसक्तीत्सक्त विपुलवृत्तावलम्बितमाल्यदामकलापां कुर्वन्ति, अप्येकका देवा विजयां राजधानीम्पञ्चवर्ण सरस सुरभि मुक्तपुष्पपुञ्जोपचारकलितां कुर्वन्ति अग्येकका देवाः विजयां राजधानी कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपमघम पायमानां गन्धोद्धृताभिरायां मुगन्धवरगंधवर्त्तिभूतां कुर्वन्ति अप्येकका देवा हिरण्यवर्षे वर्षन्ति अप्येकका देवाः सुवर्णवर्ष वर्षन्ति, जी० ३८
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy