SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५२३ प्रेमैयन्द्रिका टीका श०२२०३३ सू०१० जमालेदीक्षानिरूपणम् यावत् प्रतिश्रुत्य क्षिप्रमेव सदृशं सदृशा त्वचं यावत् शब्दयन्ति । ततःखलु ते कौटुम्बिकपुरुषाः जमाले क्षत्रियकुमारस्य पित्रा कौटुम्बिकपुरुषैः शब्दायिता: सन्तः हृष्टतुष्टाः स्नाताः कृतवलिकर्माणः कृतकौतुकमङ्गलमायश्चित्ताः एकाभरण वसनगृहीतनिर्योगा यत्रैव जमालेः क्षत्रियकुमारस्य पिता तत्रैव उपागच्छन्ति । उपागत्य करतल यावत् वर्द्धयित्वा एवम् अवादिषुः-संदिशन्तु खल देवानुप्रियाः । यत अस्माभिः करणीयम् । ततःखलु तरय जमालेः क्षत्रियकुमारस्य पिता तत् कौटुम्बिकवरतरुणसहस्रमपि एवम् अवादी-यूयं खलु देवानुपियाः! स्नाता: कृतवलिकर्माणः यावत् गृहीतनिर्योगाः जमालेः क्षत्रिय कुमारस्य शिविका परिवहत । ततःखलु ते कौटुम्विकपुरुषाः जमालेः क्षत्रियकुमारस्य यावत् प्रति. श्रुत्य स्नाताः यावत् गृहीतनिर्यागाः जयालेः क्षत्रियकुमारस्य शिविका परिवहन्ति । ततःखलु तस्य जमालेः क्षत्रियकुमारस्य पुरुषसहस्रवाहिनीं शिविकाम् आरूढस्य सतस्तत्मथमतया इमानि अष्टाऽष्टमङ्गलकानि पुरतो यथानुपूर्त्या संपस्थितानि, तद्यथा-स्वस्तिकम् १, श्रीवत्सः २, यावत् दर्पणम् ८। तदनन्तरंच खलु पूर्णकलशशृङ्गारम् यथा औपपातिके यावत् गगनतलमनुलिखन्ती पुरतो यथानुपूर्व्या संप्रस्थिता, एवं यथा औपपातिके यथैव भणितव्यम्, यावत् आलोकं वा कुर्वन्तो जयजयशब्दं च प्रयुञ्जानाः पुरतो यथाऽनुपूा संपस्थिताः तदननन्तरं च खलु अष्टशतं गजानाम् , अष्टशतं तुरगाणाम् , अष्टशतं रथानाम् , तदन्तरं च खलु असि, शक्ति, कुन्त, तोमरशूललकुट भिन्दिपालधनुःपाणिसज्जं बहुकं पदात्यनीकं पुरतः संपस्थितम्, तदनन्तरं च खलु वहवः उग्राः भोगाः यथा औपपातिके यावत् महापुरुषवागुरापरिक्षिप्ताः जमालेः क्षत्रियस्य पुरतश्च मार्गतश्च पार्श्वतश्च यथानुपूर्ध्या संपस्थिताः । तदनन्तरं च खलु बहवो राजेश्वरतलवरयावत् सार्थवाहमभृतयः पुरतः संपस्थिताः ततःखलु तस्य जमाले क्षत्रियकुमा. रस्य पिता स्नातः कृतबलिकर्मा यावत् विभूपितो हस्तिस्कन्धवरगतः सकोरण्टमाल्यदाम्ना छोण ध्रियमाणेन श्वेतवरचामराभ्याम् उधृयमानः उद्धयमानो हयगजरथमवरयोधकलितया चतुङ्गिण्या सेनया साईम् संपरितः महता भटचटकर यावत परिक्षिप्तो जमालेः क्षत्रियकुमारस्य पृष्ठतः पृष्ठतोऽनुगच्छति। ततः खलु तस्य जनालेः क्षत्रियकुमारस्य पुरतो महान्तः अश्वा: अश्ववरा: उभयोः पाचे नागाः नागवराः पृष्ठतो रथाः रथसंमेल्ली । ततःखलु स जमालिः क्षत्रियकुमारः अभ्युद्गतभृङ्गारः परिगृहीततालवन्तः उच्छ्रिततालवन्तः उच्छ्रितश्वेतच्छत्र: प्रवीजित वेतचामर बालव्यजनिकः सर्वद्धर्थी यावत् नादितरवेण। क्षत्रिय कुण्डग्रामस्य नगरस्य मध्यमध्येन यत्रैव ब्राह्मणकुण्डग्राम नगरं, यत्रैव वहुशालकं चैत्यम्, यत्रैव श्रमणो भगवान् महावीरस्तत्रैव प्राधारयद् गमनाय ॥सू०१०॥
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy