SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५२२ भगवतीस्त्रे अनुलिम्यतः अनुलिप्य नासानिश्वासवातवाह्यम् चक्षुर्हरम् वर्णस्पर्शयुक्तम् , हय लालापेलवातिरेकम् धवलं कनकखचितान्तकर्ममहार्हम् हंसलक्षण पटशाटकं परिधापयतः परिधाज्य हारं पिनह्यतः, हारं पिनद्य अर्धहारं पिनह्यतः, अर्धहारं पिनह्य एवं यथा सूर्याभस्य अलङ्कारस्तथैव यावत चित्ररत्नसंकटोत्कटं मुकुटं पिनह्यतः किं बहुना ? ग्रन्थिमवेष्टिमपूरिमसंघातिमेन चतुर्विधेन माल्येन कल्पवृक्षकमिव अलकृतविभूषितं कुरुतः। ततःखलु तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अवादीत्-क्षिप्रमेव भो देवावप्रियाः । अनेकस्तम्भशतसन्निविष्टाम लीलास्थितशालभञ्जिकां यथा राजप्रश्नीये विमानं वर्णकः यावत् मणिरत्नघण्टिकाजालपरिक्षिप्तं पुरुषसहस्रबाह्याम् शिविकाम् उपस्थापयत, उपास्थाप्य मम एतामाज्ञप्तिं प्रत्यर्पयत । ततःखलु ते कौटुम्बिकपुरुषाः यावत् प्रत्यर्पयन्ति । ततःखलु स जमालेः क्षत्रियकुमारः केशालङ्कारेण बस्त्रालंकारेण माल्यालङ्कारेण आभरणालङ्कारेण चतुर्विधेन अलङ्कारेण अलङ्कारितः सन् पतिपूर्णालङ्कारः सिंहासनात अभ्युत्तिष्ठत्ति, अभ्युत्थाय शिविकाम् अनुपदक्षिणीकुर्वन् शिविकामारोहति । शिविकामारुह्य सिंहासनवरे पौरत्स्याभिमुखः सन्निपण्णः । ततः खलु तस्य जमाले क्षत्रियकुमारस्य माता स्माता कृतवलि यावद शरीरा हंसलक्षण पटशाटकं गृहीत्वा शिबिकाम् अनुमदक्षिणीकुर्वती शिविकामारोहति, शिविकामारुह्य जमालेः क्षत्रियकुमारस्य पृष्ठतः एका वरतरुणी शङ्गारागारचारुवेषा संगतगति यावत् रूपयौवनविलासकलिता सुन्दरस्तन० हिमरजतकुमुदकुन्देन्दुप्रकाशं सकोरण्टमाल्यदामधवलम् आतपत्रं गृहीत्वा सलीलम् उपरि धारयन्ती धारयन्ती तिष्ठति । ततःखलु तस्य जमालेः उभयतः पार्श्व द्वे वरतरुण्यौ शृङ्गारागारचारु यावत् कलिते नानामणिकनकरत्न विमलमहार्हतपनीयोज्ज्वलपिचित्रदण्डे दीप्यमाने शङ्खासकुन्ददकरजोऽमृतमथितफेनपुञ्जसंनिकाशे धवले चामरे गृहीत्वा सलील वीक्षमाणे वीक्षमाणे तिष्ठति । ततःखलु तस्य जमालेः क्षत्रियकुमारस्य उत्तरपौरस्त्ये एका वरतरुणी शृङ्गारागार यावत् कलिता श्वेतरजतमयं विमलसलिलपूर्ण मत्तगजमुखाकृतिसमानं भृङ्गार गृहीत्वा तप्ठति । ततःखल तस्य जमालेः क्षत्रियकुमारस्य दक्षिणपौरस्त्ये एका वरतरुणी शृङ्गारागार यावत् कलिता चित्रकनकदण्डं तालवृन्तं गृहीत्वा तिष्ठति । ततःखलु तस्य जमालेः क्षत्रियकुमारस्य पिता कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम् अवादीत-क्षिपसेव भो देवानुपियाः! सदृशं सक्त्व चं सघशवनः सदशलावण्यरूपयौवनगुणोपेतम् एकाभरणवसनगृहीत. निर्योगम् कौटुम्बिकवरतरुणसहस्र शव्दयत । ततः खलु ते कौटुम्बिकपुरुषाः
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy