SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ समयार्थवोधिनी टीका द्वि श्रु. अ. १ पुण्डरीकनामाध्ययनम् .. - ३ ___ छाया-आथापर स्तृतीयः पुरुषजात ईश्वरकारणिक इत्याख्यायते। इह खलु भाच्यां वा ४ सन्त्ये के मनुष्या भान्ति आनुपूा लोकपुपपनाः तद्यथा-आर्या वा एके यावत् दूरूपा एके, तेषां च खलु महान् एको राजा भवति यावत् सेना. पतिपुत्राः। तेषां च खलु एकः श्रद्धावान् भवति कामं तं श्रमणाश्च ब्राह्मणाश्च सम्मधार्युः गमनाय यावत्, यथा-मया एष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवति-इह खलु धर्माः पुरुषादिकाः पुरुषोत्तराः पुरुषप्रणीताः पुरुासंभूताः पुरुषप्रयोतिताः पुरुषमभिसमन्वागताः पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम गण्डः स्यात् शरीरे जातः शरीरे संवृद्धः, शरीरेऽभिसमन्वागतः, शरीरमेव अभिभूय तिष्ठति एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम अरतिः स्थात् शरीरे जाता शरीरे संवृद्धा शरीरे अमिसमन्वागता शरीरमेव अभिभूय तिष्ठन्ति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम चल्मीकं स्यात् पृथिवीजातं पृथिवीसंवृद्धं पृथिवीमभिसमन्वागतं पृथिवीमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिकाः यावद पुरुषमेव अभिभूय-तिष्ठन्ति । तद्यथानाम वृक्षः स्यात् पृथिवीजातः पृथिवीसंदृद्धः पृथिवीमभिसमन्वागतः पृथिवीमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम पुष्करिणी स्यात् पृथिवी जाता यावत् पृथिवीमेव अभिभूय तिष्ठति एवमेव धर्मा अपि पुरुषादिका यावद पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम उदकपुष्कलं स्यात् उदकजातं यावद् उदकमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम उदकबुद् बुदः स्यात् उदकजातो यावद् उदकमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति। यदपि चेदं श्रमणानां निग्रन्थानामुद्दिष्टं प्रणीतं व्यञ्जितं द्वादशाङ्गं गणिपिटकं तद्यथा-आचारः सूत्रकृतो यावद् दृष्टिवादः सर्वमेतन्मिथ्या । नैतत्तथ्यं नैतद् याथातथ्यमिदं सत्यम् इदं तथ्यम् इदं याथातथ्यम्, ते एवं संज्ञां कुर्वन्ति ते एवं संज्ञां संस्थापयन्ति ते एवं संज्ञां सूपस्थापयन्ति, तदेवं ते वज्जातीयं दुःखं नैव त्रोटयन्ति शकुनिपञ्जरं यथा । ते नो एवं विप्रतिवेदयन्ति-तद्यथा-क्रिया इति वा यावद् अनिरय इति चा। एवमेव ते विरूपरूपैः कर्म समारम्भैः विरूपरूपान् काममोगान् समारभन्ते भोगाय । एवमेव ते अनार्या विपतिपन्ना एवं श्रदधाना यावदिति ते नोऽर्वाचे नो पाराय अन्तरा कामभोगेषु विषण्णा इति तृतीयः पुरुषजात ईश्वरकार• णिक इत्याख्यातः ।। मू०११ ।।।
SR No.009306
Book TitleSutrakrutanga Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages791
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy