SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् इष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदस्तथारोग्यम् । देहश्च यौवनं जीवितञ्च सर्वाण्यनित्यानि ॥ १५१ ॥ जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१५२॥ ९५ ज्ञानाचरणानि बोधिस्तस्य दुर्लभत्वं अहर्निशं भावयेत् । एवमेता द्वादश भावनाः सततमनुप्रेक्ष्याः ॥१५०॥ (१५१) टीका - सम्प्रत्येकैकया कारिकया भावनामेकैकां कथयति । तत्र प्रथमा भावनाऽनित्याख्या तद्दर्शयन्नाह ' - इष्टजनेत्यादि । इष्टेन जनेन सह संयोगोऽनित्यः । ऋद्धिः सम्पद्विभूतिः साप्यनित्या । विषयाः शब्दादयस्तज्जनिता सुखसम्पदोऽनित्या | आरोग्यं नीरोगता तदप्यनित्यम्। देहः शरीरकं आहारस्नानपानाच्छादनानुगृहीतमेतदप्यनित्यम् । यौवनमपि कतिपयदिवसरमणीयम् । जीवितमप्यकाण्डभङ्गुरम् । एवमेतत्सर्वमनित्यमिति भावयतो न क्वचित् स्नेहः समुपजायते । निःसङ्गश्च मोक्षचिन्तायामेव व्याप्रियत इति ॥ १५१ ॥ I ( १५२ ) टीका-अशरणभावनामधिकृत्याह - जन्मजरामरणेत्यादि । जन्मोत्पत्तिः । जरा वयोहानिः । मरणं १ प्राणत्यागः । एभ्यो भयानि तैरभिद्रुतेऽभिभूते । व्याधयो ज्वरातीसारहृद्रोगादयः । वेदनाः शरीरजा मनोभवाश्च । व्याधिवेदनाग्रस्ते व्याधिवेदनाभिगृहीते १० धर्मस्वाख्यातश्च-शोभनोऽयं धर्मो भव्यहिताय जिनैः कथितः, एषां तत्त्वचिन्तनानि ११ बोधेः सुदुर्लभत्वं चेति १२ भावना द्वादश विशुद्धा इति स्पष्टम् ॥१५०॥ ( १५१ ) ( वि० ) तत्रानित्यत्वमाह - इष्टेति । इष्टजनसम्प्रयोगश्च ऋद्धिसम्पच्च विषयसुखसम्पच्च, सम्पच्छब्दः प्रत्येकं सम्बध्यते, ता अनित्याः, तथा आरोग्यादीनि सर्वाण्यनित्यानीति ॥१५१॥ (१५२) (वि० ) अशरण भावनामाह - जन्मेति । लोके क्वचिन्नास्ति शरणमिति योगः । कीदृशे ? - अभिद्रुते-अभिभूते । कैः ? - जन्मजरामरणेभ्यो भयानि जन्मजरामरणभयानि तैः, तथा (१५१) (अव० )—– इष्टजनसम्प्रयोगश्च ऋद्धिसम्पच्च विषयसुखसम्पच्च सम्पच्छब्दः प्रत्येकं योज्यः ॥१५१॥ (१५२) (अव०)–अभिद्रुतेऽभिभूते ॥१५२॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy