SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥१५०॥ भावयितव्यमहर्निशं चिन्तनीयमभ्यसनीयम् । किं तदनित्यत्वं ? सर्वस्थानान्यशाश्वतानि, संसारे नास्ति किञ्चिन्नित्यमिति । तथाऽशरणत्वं जन्मजरामरणाभिभूतस्य नास्ति क्वचिदपि शरणं । तथा एकत्वभावना एक एवाहमित्यादिका । तथाऽन्यत्वभावना अन्य एवाहं स्वजनकेभ्यो धनधान्यहिरण्यसुवर्णादेः शरीरकाच्चेति । तथाऽशुचित्वभावना आद्युत्तरकारणाशुचित्वादिका । तथा संसारभावना माता भूत्वा रेइत्यादिका । तथा कर्माश्रवभावना आश्रवद्वाराणि विभृतानि कर्माश्रवन्तीति विभावयेत् तस्मात् स्थगनीयानि इति । ५तथा संवरविधिराश्रवद्वारनिरोधः स्थगनं निरुद्धेष्वाश्रवद्वारेषु कर्मागमनिरोधः कृतो भवति ॥१४९॥ (१५०) टीका-निर्जरणेत्यादि । तथा निर्जराभावना निरुद्धेषु आश्रवद्वारेषु पूर्वोपात्तस्य कर्मणस्तपसा क्षयो भवतीति । तथा लोकविस्तरभावना ऊर्ध्वाधस्तिर्यग्लोकेषु भ्रान्तमनादौ संसारे सर्वत्र च १मृतं जातं चेति चिन्तयेत् । स्वाख्यातधर्मचिन्तनं क्षमादिदशलक्षणको धर्मः शोभन आख्यातो निर्दोषः भव्यसत्त्वानुग्रहायेति भावयेत् । बोधेश्च दुर्लभता भावनीया मनुष्यजन्मकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ सत्यामपि सम्यक्त्व भावयितव्यं-चिन्तनीयम् । किं तत् ?-अनित्यत्वं १, तथा अशरणत्वं-जन्माद्यभिभूतस्य नास्ति त्राणं, २ तथैकताऽन्यत्वे-तत्रैकत्वम्-एक एवाहमित्यादि ३ अन्यत्वम्-अन्य एवाहं स्वजनेभ्यः ४ अशुचित्वं शुक्रशोणितादीनामादिकारणानामशुचिरूपत्वात् ५ संसार इति भवभावना 'माता भूत्वा' इत्यादिका ६ कर्माश्रवश्च संवरश्च कर्माश्रवसंवरौ तयोविधिः, तत्र कर्माश्रवविधिना आश्रवद्वाराणि विवृतानि कर्माश्रवन्तीति भावयेत् ७ संवरविधिश्चाश्रवद्वाराणां स्थगनमिति ८ ॥१४९।। (१५०) (वि०) सुष्ठ्वाख्यातः स्वाख्यातो धर्मश्चासौ स्वाख्यातश्च धर्मस्वाख्यातः, निर्जरणं लोकविस्तरश्च धर्मस्वाख्यातश्च निर्जरणलोकविस्तरधर्मस्वाख्याताः तेषां, तत्त्वचिन्ताश्च निर्जरण लोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताः । तत्र निर्जरणं-तपसा कर्मक्षपणं ९ लोकविस्तरो-लोकायामादिः जन्माद्यभिभूतस्य नास्ति किञ्चिच्छरणं । एक एवाहं इत्याद्येकत्वं । अन्य एवाहं स्वजनादिभ्यः । शुक्रशोणितादीनामादिकारणानां शरीरस्याशुचित्वं । संसार इति माता भूत्वा भगिनीत्यादि भवभावना । आश्रवद्वाराणि विवृतानि कर्माश्रवः । आश्रवद्वारपिधानं संवरः ॥१४९॥ (१५०) (अव०)-कर्मणां क्षपणोपायो निर्जरणं, लोकायामादि लोकविस्तरः, शोभनोऽयं धर्मस्तत्त्वतः परमार्थतश्चिन्ता धर्मस्वाख्याततत्त्वचिन्ता, बोधेः सुदुर्लभत्वं चेति प्रकटम् ॥१५०॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy