SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् पिण्डः शय्या वस्त्रैषणादि पात्रैषणादि यच्चान्यत् । कल्प्याकल्प्यं सद्धर्मदेहरक्षानिमित्तोक्तम् ॥१३८॥ ८७ निजाग्निबलापेक्षा प्रमाणयुक्तोऽ ऽप्याहारः कस्यचिन्न क्षमते, अतस्तादृशी मात्रा कर्तव्या या सुजरा भवति । सात्म्येति स्वभावः कस्यचिदत्यन्तस्निग्ध एवाहारः सुखं परिणमते, कस्यचिद्रूक्षः कस्यचिन्मध्यः । विरुद्धद्रव्यसम्पर्कोऽपि कस्यचित्सुखावहः । सात्म्यस्यानेकप्रकारत्वात् । द्रव्यं माहिषं दधि क्षीरं वा गुरु, 'लघु तु गव्यं दधि पयो वा ९एवमन्येषामपि द्रव्याणां गौरवं लाघवं खण्डखाद्यदध्योदनादीनां विज्ञाय स्वबलं च वातप्रकोपादिव्याधिदूषितमदूषितं च ज्ञात्वा योऽभ्यवहारमन्नादि भुङ्क्ते, किं भेषजैस्तस्येति ?, न किञ्चिदौषधैस्तस्य प्रयोजनम् । अनवकाशानि हि तत्र भैषजानीत्यर्थः ॥१३७॥, (१३८) टीका - ननु पिण्डप्रतिश्रयवस्त्रपात्रादि परिगृह्णन् कथमकिञ्चनः २ साधुर परिग्रहो भवेदित्याह–पिण्डः शय्येत्यादि । पिण्ड इत्याहारश्चतुर्विधः ३ अशनीयः । शय्या प्रतिश्रयः । वस्त्रं पात्रबन्ध - चोलपट्टक- मुखवस्त्रिकादि । आदिग्रहणाद्वस्त्रग्रहणे यो विधिरुक्तः ४स सर्वः परिगृह्यते । “पात्रग्रहणात् प्रतिग्रहकमात्रकग्रहणम् । इहाप्यादिग्रहणात् पात्रैषणाविधौ यो विधिरुक्तस्तस्यापि ग्रहणम् । यच्चान्यदित्यौपग्रहिकं दण्डकादि सङ्गृहीतं कल्पनीयं तावदुत्सर्गतः सद्धर्मदेहरक्षानिमित्तम् । देहः शरीरम् । सद्धर्मो दशलक्षणकः क्षमादिः । शरीररक्षणे सति सद्धर्मरक्षणं, तन्मूलत्वाद्धर्मानुष्ठानस्य । शरीरकं हि संयमानुष्ठानार्थं पोष्यते, क्षमादेर्धर्मस्याधारस्तदिति । कल्पनीयस्य 'चालाभे लघुतरदोषासेवनं प्राग्वदाधाकर्मग्रहणम् । एवं शय्यावस्त्रपात्रदण्डकादिष्वपि योज्यम् । सर्वे च विषयाः सापवादा मैथुनवर्जम् । एवं ९सद्धर्म रक्षार्थं च सर्वमुक्तम् । न चासौ परिग्रहः तत्रामूच्छितत्वात्, 'मूर्च्छा परिग्रह' इति स्वकीयमाहार [गमन] प्रमाणं स्वात्म्यं - यद्यस्य प्रियं पथ्यं च द्रव्यं माहिषं दधि गुरु, गव्यादि दधि क्षीरं लघु । इह समासः कार्यः ५ । तत् तथा स्वबलं - निजसामर्थ्यं ज्ञात्वा-बुद्ध्वा तत् तथा योऽभ्यवहार्यम्-अन्नादि भुङ्क्ते किं भेषजैस्तस्येति ? ॥१३७॥ (१३८ ) (वि०) एवं पिण्डशय्यादिग्रहणे कथं निष्परिग्रहता स्यादित्याशङ्क्याह-पिण्ड इति । पिण्डादि प्रसिद्धम् 'पिण्डं' सेज्जं च वत्थं च, चउत्थं पायमेव य' (पिण्डः शय्या च वस्त्रं च चतुर्थं पात्रमेव च ।) इति (दशवैकालिकम् - ६.४८) । यच्चान्यत् - औपग्रहिकं दण्डकादि उत्सर्गतः कल्प्यंकल्पनीयं अपवादतो गाढालम्बनेनाकल्प्यमपि ग्राह्यम् । किमर्थमित्याह-सन् -शोभनो धर्मो यस्य स (१३८ ) ( अव० ) – अन्यदौपग्रहिकं दण्डकादि १ उत्सर्गतोऽग्राह्यम्, कल्प्यं = कल्पनीयं, अपवादतो गाढालम्बनेन अकल्प्यमपि ग्राह्यं, लघुतरदोषासेवनं सद्धर्मदेहरक्षानिमित्तं कारणं तेनोक्तम् ॥१३८॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy