SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ८६ प्रशमरतिप्रकरणम् कालं क्षेत्रं मात्रां स्वात्म्यं द्रव्यगुरुलाघवं स्वबलम् । ज्ञात्वा योऽभ्यवहार्यं भुङ्क्ते किं भेषजैस्तस्य ॥१३७॥ नाद्विष्टेन द्वेषरहितेनेत्यर्थः । यात्रासाधनमात्रमालम्बनमधिकृत्य५ यत्किञ्चिदेषणीयमरक्तद्विष्टेन चित्तेनाभ्यवहरेत् । दारूपमा धृतिर्यस्याविकारिणी। काष्ठं हि वास्यादिभिस्तक्ष्यमाणं न द्वेषं भजते, नापि च चन्दनपुष्पादिभिः पूज्यमानं रागमुद्वहति । यथा तदचेतनं रागद्वेषरहितं, तद्वत् साधुनापि सत्यपि चेतनावत्त्वे इष्टानिष्टान्नपानलाभे सति भोक्तव्यम् । अरक्तद्विष्टेन कल्पनीयमास्वाद्यं भक्षणीयम् । पुनरास्वाद्यमिति भोक्तव्यमित्यर्थः । तच्च भोजनं कालाद्यपेक्षमभ्यवह्रियमाणं नाजीर्णादिदोषकारि ९भवतीति ॥१३६॥ (१३७) टीका-कालं क्षेत्रमित्यादि । भोक्त्रा कालोऽपेक्षणीयः ग्रीष्मवर्षाशिशिरभेदः । ग्रीष्मे बहुपानकं पातव्यमतः स्वल्पतरं भुङ्क्ते येन भुक्तं च पानं वाऽक्लेशेनैव ३जीर्यति । तथा वर्षासु साधारणं भक्तं पानं च यथोदरषड्भाग ऊनो भवति तथा भुङ्क्ते । शिशिरे च बहुतरं चान्नमेव भुङ्क्ते स्वल्पतरमुदकमापिबति । तथा ५क्षेत्रापेक्षं, रूक्षं स्निग्धं शिशिरे च त्रिधा क्षेत्रं । तत्र रूक्षे सुराष्ट्रादौ ६बहुभक्तभोजी भवति उनोदरषड्भागमात्रः । स्निग्धे जलबहुलविषये मात्रयाऽभ्यवहारं करोति यथा सुजरं भवति । तथा शिशिरक्षेत्रे शीतबहुले काश्मीरादौ अन्नपरिपाकः सुखो भवति यथा तथाऽभ्यवहर्तव्यम् । मात्रा तत्रैकस्याशनादि वाच्यं अपरस्य तु अभ्यवहरणक्रिया। ततश्चैवं योज्यते-भवति-जायते, किं तद् ? आस्वाद्यं-भोक्तव्यं. किम ?-आस्वाद्यम-अशनादिकं, अत्र द्वावपि कर्मसाधनावास्वाद्यशब्दावित्यर्थः । कीदृशम् ?-गुणवत्-स्वादुगुणोपेतं, तथा कल्प्यं-कल्पनीयम् । केनात आहअमूच्छितमनसा-अमृदुचित्तेन, साधुनेति प्रक्रमः । तथा तद्विपरीतमपि च-अन्यथाभूतम्-अगुणवदपि च अविद्यमानास्वादं कल्प्यं-शुद्धं इदं चाप्रदुष्टेन-साधुना द्वेषरहितेन । पुनः कीदृशेन ?-दारुणाकाष्ठेनोपमा-उपमानं सर्वत्रैकस्वभावतातुल्यता यस्यां सा तथा, सा धृतिर्यस्य स तथा तेन, दारुकमचेतनत्वाच्चन्दनादिभिः अभ्यर्च्यमानं न रागं न तु वास्यादिभिस्तक्ष्यमाणं द्वेषं करोति, किं तर्हि ?-एकस्वरूपमेव तिष्ठति, एवं साधुरपि शुभाशुभाहारविषये रागद्वेषं न यायादिति ॥१३६।। (१३७) (वि०) तत्र भोजनं कालाद्यपेक्षमभ्यवह्रियमाणं नाजीर्णादिदोषकरं 'स्यादित्येतदाह-कालमिति । कालं-ग्रीष्मादिकं दुर्भिक्षादिकं वा, तथा क्षेत्रं-रूक्षादिकं तथा मात्रां (१३७) (अव०)-कालमुष्णकालादि स्निग्धेतरादि च क्षेत्रं सुभिक्षादिकं च । मात्रामल्पादिरूपां, सात्म्यं यद्यस्योपभुक्तं परिणतिमेति । तथा द्रव्याणांघृतगुडादीनां गुरुत्वं लघुत्वं च । यद्वा येन द्रव्येणोपभुक्तेन गुणानां 'ज्ञानादीनां गौरवं 'दोषाणां प्रमादादीनां लाघवं चात्मनः स्यात् तद् भोज्यं वस्तु ॥१३७॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy