________________
मन:स्थिरीकरणप्रकरणम्
एस एगिदिय जेट्ठो, पल्ला संखंसहीण लहुबंधो। (सूक्ष्मार्थविचारसारोद्धार-७५) तथाकमसो विगल असन्नीण, पल्लं संखसऊणओ डहरु त्ति। (सूक्ष्मार्थविचारसारोद्धार-७६, कर्मप्रकृतिः-८१) सिद्धान्ते त्वेकेन्द्रियविकलामनसां सर्वेषामप्यूनत्वे एक एव पल्यस्यासङ्ख्येयभाग उक्तः। तथाहि
एगिंदिया णं भंते ! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधंति ? गो[यमा!] जहन्नेणं सागरोवमस्स तिन्नि सत्तभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपन्ने बंधंतीत्यादि।
(प्रज्ञापना पद-२३, सूत्र-१७०५) तथा द्वीन्द्रियदण्डके
बेइंदिया णं भंते ! जीवा नाणावरणिजस्स कम्मस्स किं बंधंति ? गोयमा ! जहन्नेणं सागरोवमपणुवीसाए तिनि सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणया, उक्कोस्सेणं ते चेव पडिपुन्ने बंधंति इत्यादि। (प्रज्ञापना पद-२३, सूत्र-१७१५)
तथा- तेइंदिया णं भंते ! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहन्नेणं सागरोवमपन्नासाए तिन्नि सत्तभागा पलिओवमस्स असंखेजइभागेणं ऊणया इत्यादि। (प्रज्ञापना पद-२३, सूत्र-१७२१) एवं चतुरिन्द्रियदण्डकेऽपि।(सूत्र-१७२५) असज्ञिपश्चेन्द्रियदण्डकेऽपि। (सूत्र-१७२८) सर्वासामपि प्रकृतीनां जघन्यस्थितेरूनत्वं पल्यासङ्ख्येयभागेनैवोक्तम्, न तु क्वापि सङ्ख्येयभागेनेति।
प्रज्ञापनायास्त्रयोविंशपदेसागरोवमपणुवीसाए तिन्नि सत्तभागि त्ति। (प्रज्ञापना पद-२३, सूत्र-१७१५)
अस्य वाक्यस्यायमर्थः- दशसागराणि पञ्च सप्तभागा इति। कथमिदमिति चेत्, उच्यते, सागरपञ्चविंशतेः सप्तभिर्भागे त्रिकेन चोत्थापितैर्लब्धं सागरत्रिकं चत्वारश्च सागरसप्तभागाः(३४४/७) तत एतत्विगुणितं यथोक्तमानं भवतीति। एवम्
तेंदिया णं सागरपन्नासाए सत्ततिन्निभागि त्ति। (प्रज्ञापना पद-२३, सूत्र-१७२१)
त्रीन्द्रियाणां सागरपञ्चाशतोऽपि सप्तभिर्भागः, लब्धं सागरसप्तकम् एकश्च भाग इति। एतदपि त्रिगुणितमेकविंशतिसागराणि सप्तमभागत्रयं च भवतीति। एवम्
चतुरिंदिया णं सागरसयस्स सत्ततिन्निभागि त्ति। (प्रज्ञापना पद-२३, सूत्र-१७२५)
चतुरिन्द्रियाणां सागरशतस्यापि सप्तभिर्भागे लब्धं चतुर्दशसागराणि सप्तमभागद्वयं च। पुनरेतत् त्रिगुणितं द्विचत्वारिंशत्सागराणि षट् च सप्तभागा भवन्तीति। एवम्
असन्नीणं सागरसहस्स सत्त तिन्निभागि त्ति। (प्रज्ञापना पद-२३, सूत्र-१७२८) असज्ञिनां सागरसहस्सस्स सत्त तिन्निभागि त्ति।
१ तिण्णिसत्तभागा इति पाठः । २ सागरोवमसयस्स तिण्णि सत्तभागा इति पाठः । मु. ३ सागरोवमसयस्स तिण्णि सत्तभागा इति पाठः । मु.