SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ भवभावना-२९५ वरवृषभस्येवोन्नतत्वात् स्कन्धो येषां ते, चतुरङ्गुलप्रमाणा या शंखवद्वृत्तया त्रिरेखाङ्कितत्वेन च तदुपमया ग्रीवया कलितास्ते, शार्दूलस्य =व्याघ्रस्येव हनुः = चिबुकं येषां ते, बिम्बी = गोल्ही तत्फलवदारक्तौ अधरौ येषां ते, शशी = चन्द्रः सम्पूर्णतया कान्तियुक्तत्वेन तत्समौ कपोलौ येषां ते, कुन्ददलवद्धवला दन्ता येषां ते, विहगाधिपो = गरुडस्तच्चञ्चुवत् सरला = समा = सर्वत्राविषमा नासा येषां ते, पद्मदलवदीर्घनयना आरोपितानङ्गवचक्रधनुरिव कुटिले भरेखे येषां ते, रतिरमणः = कामस्तस्यान्दोलकसदृशौ श्रवणौ येषां ते, अर्धेन्दुप्रतिमं भालं येषां ते, पश्चात् पदद्वयस्य कर्मधारयः। भरताधिपश्चक्री तच्छत्राकारं शिरो येषां ते, कज्जलं घनमेघास्तद्वत् कृष्णा मृदवः केशा येषां ते। शेषं सुगमम्॥२९४॥ [मू] लायन्नरूवनिहिणो, सणसंजणियजणमणाणंदा। इय गुणनिहिणो होउं, पढमेच्चिय जोव्वणारंभे॥२९५॥ [लावण्यरूपनिधयो दर्शनसञ्जनितजनमनआनन्दाः। इति गुणनिधयो भूत्वा प्रथमे एव यौवनारम्भ।।२९५॥] [मू] तह विहुरिज्जति खणेण कुट्टक्खयपमुहभीमरोगेहि। जह होति सोयणिज्जा, निवविक्कमरायतणुओ व्व॥२९६॥ [तथा विधुर्यन्ते क्षणेन कुष्ठक्षयप्रमुखभीमरोगैः। यथा भवन्ति शोचनीया नृपविक्रमराजतनुज इव।।२९६||] [अव] स्पष्टे। भावार्थः कथागम्यः। नृपविक्रमकथा] सा चेयम पाटलीपरे हरितिलको राजा, गौरी राज्ञी, विक्रमः सुतः ३२(द्वात्रिंशत्) लक्षणलक्षितगात्रः स्वर्णवर्णः सौभाग्यनिधिश्चन्द्रमण्डलवत्सकलजनानन्दनो यौवनं प्राप। पित्रैकदिने द्वात्रिंशद राजकन्याः परिणायितः। भार्यायोग्याः ३२(द्वात्रिंशद) आवासाः कारिताः। तेषां मध्ये निरूपमविक्रमनृपयोग्यं सप्तभूमं धवलगृहं कारितम्। कुमारो यावता भोगसमर्थः समजनि। तावताकस्मादेव सर्वाङ्गे तस्य गलत्कुष्ठरोगो जातः। तीव्राशीर्षाक्षिवेदना, दन्तपीडा उदीर्णाः, जातो गलरोगसमुदयः, उत्स्यूना जिह्वा, स्फुटितमोष्ठयुगम्, वहति कर्णयोः पूयप्रवाहः, प्रवृद्धो गण्डमालो, जातो हस्तपादाभ्यां १. गिलोडी इति भाषायाम् अभि. चि. ११८५
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy