________________
भवभावना-२१८
[अव] निद्दय. इत्यादि गाथा सुगमा। नवरं मायाप्रधानो व्याधो मायाव्याधः। कूटहरिणिं ति। इह किल आखेटिका स्वयं वृक्षाद्यन्तरिताः प्रलम्बातिसूक्ष्मां दवरिकां बद्ध्वा निजहरिणीमटव्यां हरिणानुद्दिश्य मुञ्चन्ति। तां दृष्ट्वेत्यर्थः॥२१४॥ [मू] वइविवरविहियझंपो, गत्तासूलाइ निवडिओ संतो। जवचणयचरणगिद्धो, विद्धो हिययम्मि सूलाहिं ॥२१५॥
[वृतिविवरविहितझम्पो गर्ताशूलया निपतितः सन्।
यवचनकचरणगृद्धो विद्धो हृदये शूलाभिः॥२१५॥] [अव| इह कस्मिँश्चिद्देशे यवचणकक्षेत्राणि हरिणाश्चरन्ति। तद्रक्षार्थम् उच्चा घनाश्च वृत्तयः क्रियन्ते। क्वचिदप्येकस्मिन् प्रदेशे किञ्चिन्नीचैस्तरां कुर्वन्ति अभ्यन्तरे चाधः सङ्कीर्णा उपरिविशाला मध्यनिखाता अतितीक्ष्णा खादिरकीलकरूपशूलिकागतः खनन्ति। तेषु च नीचवृत्तिरूपेषु वृत्तिविवरेषु आगत्य परमार्थमजानानाः केऽपि मुग्धहरिणा झम्पां दत्त्वा प्रविशन्ति। ततस्तैाधैर्विद्धो भक्षितश्चेति॥२१५॥]
अपरं च मत्ताश्च हरिणाः किल शृङ्गाद्याघातैर्वृक्षानाघ्नन्तः परिभ्रमन्ति। ततः कस्मिँश्चिद्वंशजाल्यादौ गुम्पितवृक्षे विलग्नशृङ्गा विलपन्तो म्रियन्ते इति दर्शयति[v] मत्तो तत्थेव य नियपमायओ निहयरुक्खगयसिंगो। सुबहु वेल्लंतो जं, मओऽसि तं किं न संभरसि ?॥२१६॥
[मत्तस्तत्रैव च निजप्रमादतो निहितवृक्षगतशृङ्गः।
सुबहु वेल्लन् यद् मृतोऽसि तत् किं न स्मरसि ?॥२१६॥] [अव]गतार्था। नवरं तत्रैव हरिणजन्मनि॥२१६॥ [v] गिम्हे कंताराइसु, तिसिओ माइण्हियाई हीरंतो। मरइ कुरंगो फुटुंतलोयणो अहव थेवजले॥२१७॥
[ग्रीष्मे कान्तारादिषु तृषितो मृगतृष्णया ह्रियमाणः।
___ म्रियते कुरङ्गः स्फुटल्लोचनोऽथवा स्तोकजले॥२१७||] [] हरिणो हरिणीऍ कए, न पियइ हरिणी वि हरिणकज्जेण।
तुच्छजले बुड्डमुहाइं दो वि समयं विवन्नाइं॥२१८॥
१. खद्धो य इति पा. प्रतौ।, २. याहि इति पा. प्रतौ।