SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भवभावना-१७७ [मू] अन्ने अवरोप्परकलहभावओ तह य कोवकरणेणं। पावंति तिरियभावं, भमंति तत्तो भवमणंत॥१७६॥ ___[अन्ये परस्परकलहभावतः तथा च कोपकरणेन। प्राप्नुवन्ति तिर्यग्भावं भ्रमन्ति ततो भवमनन्तम्॥१७६॥] दृष्टान्तमाह[मू] पाणिवहेणं भीमो, कुणिमाहारेण कुंजरनरिंदो। आरंभेहि य अघलो, नरयगईए उदाहरणा॥१७७॥ [प्राणिवधेन भीमः कुणपाहारेण कुञ्जरनरेन्द्रः। आरम्भैश्च अघलो नरकगतेरुदाहरणानि॥१७७॥] भीमकथा] [अव] कथानकं यथा-काम्पिल्यपुरे श्रीदामस्य पद्मावतीजायायाः सुतो भीमः क्रौर्यलौल्यादिदोषाकरः। द्वितीयजायायाः कमलिन्याः सुताश्चत्वारः भानुराम कीर्ति - धनाः कलावन्तो गुणिनश्च। मतिसागरमन्त्री सुश्राद्धस्तस्य सुताश्चत्वारः सुमति - विमल बृहस्पति मतिधनाः गुणिनः कलावन्तश्च। भीमो दुर्दान्तो भान्वादिबन्धून् सुमतिं विना मन्त्रिपुत्राँश्च कुट्टयति। मन्त्रिणा भीमाज्ञाये(मापाये) राज्ञो ज्ञापितेऽपि राज्ञीभयान्नृपो भीमस्य वक्तुं न शक्नोति। अन्यदा भीमोद्विजिता जना रावां कुर्वन्ति। ततो राज्ञा भीमः कुमारभुक्त्या देशे दत्ते प्रेष्यमाणः सुमतिं सहाकारयति। मन्त्र्यपि “वत्स! यदा भीमो नृपं मां च निगृह्णाति तदा त्वया रक्षा कार्या” इति सुमतिमाशिक्षयत्। ततो मन्त्रिबुद्ध्या “वत्स! यदा मां मन्त्रिणं च भीमो निगृह्णाति तदा त्वया रक्षा कार्या” इति सविमलं भानु बहुरत्नादियुतं राजा देशान्तरे प्रैषीत्। भीमोऽथ देशान् वशीकृत्य काम्पिल्यं च राजानं समन्त्रिणं काष्ठपञ्जरे क्षिप्त्वा नृपोऽभूत्। सुमतिश्च मन्त्री कृतः। भीमो नृपामात्यौ दिधउ(धृतौ?)। सुमतिवाचा सकाष्ठपञ्जरौ भूमध्ये चिक्षेप। तौ च सुमतिः सुरङ्गया स्वगृहं निन्ये रहः। भीमश्च शश्वन्मृगयारतो दस्यून् मारयति। अल्पेऽप्यपराधे हस्तादि छिन्दन् शत्रुग्रामज्वालनादिना दुष्टोऽभूत्। ___इतश्च भानुविमलौ भुवि भ्रमन्ताम(व)टव्यां योगिनं विद्या साधयन्तं दृष्ट्वा किमेतदिति पृच्छतुः। योग्याह-“भद्र! मे गुरुदत्तविद्यां साधयतो बहुकालो गतः। विद्यां जप्त्वा बिल्वमग्नौ क्षिप्यते त्रिः, पश्चाद् स्वयं झम्पा दीयते। परं तादृशं सत्त्वं मे ना”
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy