________________
१५०
भवभावना-५१८
अपरामपि तद्भावनामाह[] सकयाइं च दुहाई, सहसु उइन्नाइं निययसमयम्मि। नहु जीवोऽवि अजीवो, कयपुव्वो वेयणाईहिं॥५१८॥
[स्वकृतानि च दुःखानि सहस्व उदीर्णानि निजकसमये।
न खलु जीवोऽपि अजीवः कृतपूर्वो वेदनादिभिः॥५१८॥] [अव] तद्धेतुसमाचरणेन स्वयमेव पूर्वं कृतानि दुःखानि सम्प्रत्युदीर्णानि हे जीव! सहस्व, महानिर्जराफलत्वात् सम्यक्सहनस्य। न च वेदनादिभिरादिशब्दाद्राटिभिजीवोऽप्यजीवः कृतपूर्वः कदाचनापि यदा च जीवो जीवत्वं वेदनादिभिः कथमपि न त्यजति किं तदा वैकल्येनेत्यर्थः॥५१८॥
अपरमपि यत्किञ्चित् ज्ञानिनः कुर्वन्ति तदाह[मू] तिव्वा रोगायंका, सहिया जह चक्किणा चउत्थेणं। तह जीव ! ते तुमं पि हु, सहसु सुहं लहसि जमणंतं॥५१९॥
तीव्रा रोगातङ्काः सोढा यथा चक्रिणा चतुर्थेन।
तथा जीव ! तान् त्वमपि खलु सहस्व सुखं लभसे यदनन्तम्॥५१९॥] [मू] जे केइ जए ठाणा, उईरणाकारणं कसायाणं। ते सयमवि वज्जंता, सुहिणो धीरा चरंति महि॥५२०॥
[यानि कानिचिद् जगति स्थानान्युदीरणाकारणं कषायाणाम्।
तानि स्वयमपि वर्जयन्तः सुखिनो धीराश्चरन्ति महीम्॥५२०॥ [अव| धीराः = ज्ञानिनः, सुखिनो महीं पर्यटन्ति। किं कुर्वन्तः? इत्याहस्वयमपि ज्ञानेन विज्ञाय तानि वर्जयन्तः = परिहरन्तः। कानीत्याह-जगति यानि कानिचित् स्थानानि उदीरणाकारणम् = उद्दीपनहेतुभूतानि, केषामित्याह कषायानाम् = क्रोधादीनाम्। इदमुक्तं भवति–ज्ञानिनः स्वयमपि ज्ञात्वा सर्वाण्यपि कषायोदीरणानि वर्जयन्ति। तद्वर्जनेन च कषायाः सर्वथैव नोदीर्यन्ते। कषायाभावे चामृतसिक्ता इव सुखिनस्ते पृथिव्यां पर्यटन्तीत्यर्थः॥५२०॥ [] हियनिस्सेयसकरणं, कल्लाणसुहावहं भवतरंडं।
सेवंति गुरुं धन्ना, इच्छंता नाणचरणाइं॥५२१॥