SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३२ मोक्षप्राप्त्यभावात्। अतोऽनन्तरं निर्जराभावनोच्यते । निर्जरा च चिरबद्धस्य कर्मणो मुक्तावलीप्रमुखतपोविशेषैर्भवतीति तान्याह [मू| कणगावलि-रयणावलि-मुत्तावलि-सीहकीलियप्पमुहो । होइ तवो निज्जरणं, चिरसंचियपावकम्माणं ॥ ४५१ ॥ [कनकावलि-रत्नावलि-मुक्तावलि-सिंहक्रीडितप्रमुखानि। भवति तपः निर्जरणं चिरसञ्चितपापकर्मणाम्॥४५१॥] भवभावना-४५१ [अव] स्पष्टा ॥४५१॥ [मू] जह जह दढप्पइन्नो, वेरग्गगओ तवं कुणइ जीवो। तह तह असुहं कम्मं, झिज्जइ सीयं व सूरहयं ॥ ४५२॥ [यथा यथा दृढप्रतिज्ञो वैराग्यगतस्तपः करोति जीवः। तथा तथाशुभं कर्म क्षीयते शीतमिव सूरहतम्॥४५२॥] [मू] नाणपवणेण सहिओ, सीलुज्जलिओ तवोमओ अग्गी। दवहुयवहो व्व संसारविडविमूलाई निद्दहइ ॥ ४५३॥ [ज्ञानपवनेन सहितः शीलोज्ज्वलितः तपोमयोऽग्निः । दवहुतवह इव संसारविटपिमूलानि निर्दहति॥४५३॥] [मू] दासोऽहं भिच्चोऽहं, पणओऽहं ताण साहुसुहडाणं । तवतिक्खखग्गदंडेण सूडियं जेहि मोहबलं॥४५४॥ [दासोऽहं भृत्योऽहं प्रणतोऽहं तेषां साधुसुभटानाम्। तपस्तीक्ष्णखड्गदण्डेन सूदितं यैर्मोहबलम्॥४५४॥] [मू] मइलम्मि जीवभवणे, विइन्ननिब्भिच्चसंजमकवाडे । दाउ नाणपईवं, तवेण अवणेसु कम्ममलं ॥ ४५५॥ [मलिने जीवभवने वितीर्णनिबिडसंयमकपाटे । दत्त्वा ज्ञानप्रदीपं तपसा अपनय कर्ममलम्॥४५५॥] [अव] जीव एव भवनम् =गृहं तस्मिन् कर्मकचवरमलिने आगन्तुकमलनिषेधार्थं वितीर्णघननिच्छिद्रसंयमकपाटे ज्ञानप्रदीपं दत्त्वा पिटकादिस्थानीये तपसा कर्मणोऽपनयनेन निर्वृत्तिमवाप्नोति इत्यर्थः। उक्तंच
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy