SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२० भवभावना-४३१ [अष्टमी आश्रवभावना] अथ धर्मध्यानार्थमेवाष्टमी कर्माश्रवभावना प्रारभ्यते । तत्र संविग्नेन मुमुक्षुणा संसारक्लेशछेदे सर्वदैवेदं मनसि भावनीयमित्याह [मू| केवलदुहनिम्मविए, पडिओ संसारसायरे जीवो। जं अणुहवइ किलेसं, तं आसवहेउयं सव्वं ॥४३१॥ [केवलदुःखनिर्मापिते पतितः संसारसागरे जीवः। यमनुभवति क्लेशं तद् आश्रवहेतुकं सर्वम्॥४३१॥] [अव] केवलदुःखैर्निर्मितं=घटितं तदात्मके इत्यर्थः॥४३१॥ यैर्जीवः कर्माश्रवयति तान् सूत्रत एवाह [मू] रागद्दोसकसाया, पंच पसिद्धाई इंदियाई च। हिंसालियाइयाणि य, आसवदाराई कम्मस्स॥४३२॥ [रागद्वेषकषायाः पञ्च प्रसिद्धानीन्द्रियाणि च। हिंसालीकादीनि च आश्रवद्वाराणि कर्मणः ॥ ४३२ ॥ ] [अव] आदिशब्दाच्चौर्यमैथुनपरिग्रहरात्रिभोजनादि । इदमुक्तं भवति - यथा कश्चिदुद्घाटितद्वारेऽपवरके मूलद्वारैर्गवाक्षजालैः पवनप्रेरितं रजः प्रविशति तथा जीवापवरकेऽपि॥४३२॥ [मू] रागद्दोसाण धिरत्थु जाण विरसं फलं मुणंतो वि। पावेसु रमइ लोओ, आउरवेज्जो व्व अहिए ॥ ४३३ ॥ [रागद्वेषयोः धिगस्तु ययोः विरसं फलं जानानोऽपि। पापेषु रमते लोक आतुरवैद्य इव अहितेषु॥ ४३३॥] [अव] रागद्वेषयोर्धिगस्तु ययोर्विरसं फलं जानन्नपि वराको लोकस्तदन्धीकृतः पापेषु रमते यथा व्याधितोऽपथ्येषु॥४३३॥ अथ क्रोधमानमायालोभानामाश्रवद्वारतामाविःकुर्वन्नाह [मू] धम्मं अत्थं कामं, तिन्नि वि कुद्धो जणो परिच्चय । आयरइ ताइं जेहि, य दुहिओ इह परभवे होइ ॥ ४३४ ॥ [धर्ममर्थं कामं त्रीण्यपि क्रुद्धो जनः परित्यजति। आचरति तानि यैश्च दुःखित इह परभवे भवति॥४३४॥]
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy