SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ भवभावना-४२५ ११७ [अव] स्पष्टा॥४२२॥ तदेवं विपर्यस्तो लोकस्तैलजलागुरुकर्पूरकुङ्कुममलयजरसताम्बूलवस्त्राभरणादिभिः संस्कृतं यत्शरीरं तत् शुचित्वेन व्यवस्यति। तात्त्विकमशुचित्वमनया वत्थाहार त्ति गाथयोपदर्शितम्। यान्यप्यमेध्यमृत्तिकाद्याधारतडागजलादीनि अशुचिरूपाणि लोको मन्यते तान्यपि संस्कारवशात्शुचित्वं प्रतिपद्यन्ते इत्याह[मू] असुहाणि वि जलकोद्दववत्थप्पमुहाणि सयलवत्थूणि। सक्कारवसेण सुहाइ होंति कत्थइ खणद्धेणं॥४२३॥ [अशुभान्यपि जलकोद्रववस्त्रप्रमुखाणि सकलवस्तूनि। संस्कारवशेन शुभानि भवन्ति कुत्रचित् क्षणार्धेन॥४२३॥] [म] इय खणपरियत्तंते, पोग्गलनिवहे तमेव इह वत्थं। मन्नामि सुइं पवरं, जं जिणधम्मम्मि उवयरइ॥४२४॥ [इति क्षणपरावर्तमाने पुद्गलनिवहे तदेव इह वस्तु। मन्ये शुचिं प्रवरं यज्जिनधर्मे उपकरोति॥४२४॥] [अव] इत्युक्तन्यायेन सर्वस्मिन् पुद्गलनिवहे प्रतिक्षणं परावर्तमाने [शुभे कर्पूरहारताम्बूलादौ देहादिसम्बन्धादशुभतां प्रतिपद्यमाने शुभेऽपि मदनकोद्रवादौ शुभतामासादयति। किं शुचिस्वरूपं किं वाशुभं व्यपदिश्यताम्? इति शेषः। तत्किं सर्वथा किञ्चिदपि वस्तु शुचितयात्र न व्यपदेष्टव्यम् इत्याशङ्क्याह तमेव. इत्यादि। तदेवेह वस्तु शुचिरूपं प्रधानं चाहं मन्ये यत् साधुदेहादिकं कुसुमविलेपनादिकं जिनधर्मे क्षान्त्यादिके जिनपूजादानशीलादिके चोपकुरुते, नान्यत्, तस्य सर्वस्यापि पापोपकारितया नरकादिभवहेतुत्वेन तत्त्वतोऽशुचिस्वरूपत्वादिति।॥४२४॥ यतश्चैवं तस्मादुदाहरणगर्भं कृत्योपदेशमाह[] तो मुत्तूण दुगुंछं, उम्मायकरं कयंबविप्प व्व। देहं च बज्झवत्थु, च कुणह उवयारयं धम्मे॥४२५॥ [ततो मुक्त्वा जुगुप्सामुन्मादकारिणीं कदम्बविप्र इव। देहं च बाह्यवस्तु च कुरु उपकारकं धर्मे।।४२५॥] । [अव] यस्मात्तदेव वस्तु शुचिस्वरूपं प्रधानं वा यज्जिनधर्मे उपकरोति, शेषमशुच्येव। तस्माज्जुगुप्सां मुक्त्वा कदम्बविप्र इव देहादिकं सर्वं धर्मोपकारि कुर्विति।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy