SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११२ भवभावना-४०४ [षष्ठी अशुचिभावना] अथ संसारस्य दुःखस्वरूपत्वेऽपि शरीराश्रितं सुखं प्राणिनो भविष्यति, तस्य शुचिस्वरूपत्वाद् इत्याशक्य तदशुचित्वप्रतिपादनपरां षष्ठीमशुचित्वभावनां बिभणिषुराह[मू] बीयट्ठाणमुवटुंभहेयवो चिंतिउं सरूवं च। को होज्ज सरीरम्मि वि, सुइवाओ मुणियतत्ताणं ?॥४०४॥ [द्वितीयस्थानमुपष्टम्भहेतून् चिन्तयित्वा स्वरूपं च। को भवेत् शरीरेऽपि शुचिवादो ज्ञाततत्त्वानाम् ?॥४०४॥] [अव| शरीरबीजं = शुक्रस्थानं स्वजनन्युदरम्, अवष्टम्भहेतवोऽपि तस्य मातृशुक्रशोणितादयः। एतानि सर्वाणि विचिन्त्य, तथा स्वयं शरीरस्य मांसशोणितास्थिचर्मादिसमुदायरूपं विचिन्त्य विदितवेद्यानां शरीरेऽपि निर्विवादप्रत्यक्षाशुचिवस्तुस्तोममये कः शुचिवादः? न कश्चिदित्यर्थः॥४०४॥ अथशरीरबीजादीन् तत्र एवव्याचिक्षीसुराह[मू] बीयं सुक्कं तह सोणियं च ठाणं तु जणणिगब्भम्मि। ओयं तु उवटुंभस्स कारणं तस्सरूवं तु॥४०५॥ [बीजं शुक्रं तथा शोणितं च स्थानं तु जननीगर्थे। ओजस्तु उपष्टम्भस्य कारणं तत्स्वरूपं तु॥४०५॥] [अव] बीजं = कारणं तच्च शरीरस्य पितः शक्रं मातः शोणितञ्च। स्थानं तस्यादौ जननीगर्भ। शुक्रशोणितसमुदाय ओज उच्यते।शरीरोपष्टम्भस्यापि प्रथमतस्तदेव हेतुः॥४०५॥ स्वरूपंतु तस्य शरीरस्याह[मू] अट्ठारस पिट्टिकरंडयस्स संधीओ होंति देहम्मि। बारस पंसुलियकरंडया इहं तह छ पंसुलिए॥४०६॥ [अष्टादश पृष्ठिकरण्डकस्य सन्धयो भवन्ति देहे। द्वादश पांशुलिकाकरण्डकाका इह तथा षट् पांशुलिकाः॥४०६॥] [मू] होइ कडाहे सत्तंगुलाई जीहा पलाइं पुण चउरो। अच्छीओ दो पलाइ, सिरं च भणियं चउकवालं॥४०७॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy