SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०४ चतुर्थवृत्तवैताढ्यशैलशिखरेष्वपि गत्वा तुम्बरादीनि गृह्णन्ति । तथा पञ्चविदेहविजयेषु यानि मागधादितीर्थानि तेषु सलिलमुपनयन्ति । ततो वक्षस्कारगिरिषु भद्रशालवने च तुम्बरादीनि गृह्णन्ति। ततो नन्दन - सोमनस-पाण्डुकवनेषु क्रमेण तुम्बरादीनि, सरसगोशीर्षश्रीखण्डं च गृह्णन्ति। सोमनसे विशेषतः सरससुरभिकुसुमदामग्रहणं कुर्वन्ति । पण्डुकवने तु सुरभिगन्धान्वितानि गन्धद्रव्याणि गृहीत्वा तुम्बरादिभिः सह विमिश्रयन्तीत्यर्थः॥३६०॥ [मू] घेत्तूण जंति खीरोयहिम्मि तह पुक्खरोयजलहिम्मि । दोस वि गिण्हंति जलाई तह य वरपुंडरीयाई ॥ ३६१ ॥ [गृहीत्वा यान्ति क्षीरोदधौ तथा पुष्करोदजलधौ। द्वयोरपि गृह्णन्ति जलानि तथा च वरपुण्डरीकाणि॥ ३६१॥] |मू] मागहवरदामपभासतित्थतोयाइं मट्टियं च तओ। समयक्खेत्ते भरहाइगंगसिंधूण सरियाणं ॥ ३६२॥ [मागधवरदामप्रभासतीर्थतोयानि मृत्तिकां च ततः। समयक्षेत्रे भरतादिगङ्गासिन्धूनां सरिताम्॥३६२॥] भवभावना-३६१ [म] रत्तारत्तवईणं, महानईणं तओऽवराणं पि। उभयतडमट्टियं तह, जलाई गिण्हंति सयलाणं ॥ ३६३॥ [रक्तारक्तवतीनां महानदीनां ततोऽपरासामपि। उभयतटमृत्तिकां तथा जलानि गृह्णन्ति सकलानाम्॥३६३॥] [मू] गंतूण चुल्लहिमवंतसिहरिपमुहेसु कुलगिरिंदेसु। सव्वाइं तुवरओसहिसिद्धत्थयगंधमल्लाइं॥३६४॥ [गत्वा क्षुल्लहिमवच्छिखरिप्रमुखेषु कुलगिरीन्द्रेषु। सर्वाणि तुवरौषधिसिद्धार्थकगन्धमाल्यानि॥३६४॥] [मू] गिण्हंति वट्टवेयड्ढसेलसिहरेसु चउसु एमेव। विजएसु जाई मागहवरदामपभासतित्थानं ॥ ३६५॥ [गृह्णन्ति वृत्तवैताढ्यशैलशिखरेषु चतुर्षु एवमेव। विजयेषु यानि मागधवरदामप्रभासतीर्थानि॥३६५॥] १. तुवरादीनि इति हेम. मल.वृत्ति.मु.अ.। अग्रेऽपि।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy