SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ऊर्ध्वस्वभावगमनं सुमनोव्यपेतं, ब्रह्मादिबीजसहितं गगनावभासम् । क्षीरान्नप्राज्य-वटकै रसपूर्णगर्भेनित्यं यजे चरुवरैर्वसिद्धचक्रम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षधारोगविनाशाय नैवेद्यं निर्वपामीति स्वाहा । आतमशोकभयरोगमदप्रशान्तं, निर्द्वन्द्वभावधरणं महिमानिवेशम् । कर्पूरवर्तिबहुभिः कनकावदातैर्दीपैर्यजे रुचिवरैर्वर-सिद्धचक्रम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशाय दीपं निर्वपामीति स्वाहा । पश्यन्समस्तभुवनं युगपन्नितान्तं, त्रैकाल्यवस्तुविषये निविडप्रदीपम्। सद्रव्यगन्धघनसारविमिश्रितानां, धूपैर्यजे परिमलैर्वरसिद्धचक्रम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं। निर्वपामीति स्वाहा । सिद्धासुराधिपतियक्षनरेन्द्रचक्रैर्येयं, शिवं सकलभव्यजनैः सुवन्द्यम् । नारिपूगकदलीफलनारिकेलैः, सोअहं यजे वरफलैर्वरसिद्धचक्रम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षपदप्राप्तये फलं निर्वपामीति स्वाहा । गन्धाढ्यं सुपयो-मधुव्रत-गणैः संगं वरं चन्दनं, पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् । धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये, सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वांछितम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घपद-प्राप्तयेअर्घ निर्वपामीति स्वाहा । ज्ञानोपयोगविमलं विशदात्मरूपं, सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम् । कर्मोघ-कक्ष-दहनं सुख-सस्य-बीजं, वन्दे सदा निरुपमं वर-सिद्ध-चक्रम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने महाघु निर्वपामीति स्वाहा । 742
SR No.009243
Book TitleChovis Bhagwan Ki Pujaye Evam Anya Pujaye
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages798
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy