SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ सिद्धपूजा ऊर्दध्वाधो-रयुतं सबिन्दु-सपरं ब्रह्मस्वरावेष्टितं, वर्गापूरित-दिग्गताम्बुजदलं तत्सन्धि-तत्त्वान्वितम् । अन्तःपत्रतटेष्वनाहतयुतं ह्रींकारसंवेष्टितं, देवं ध्यायति यः स मुक्तिसुभगो वैरीभकण्ठीरवः ॥ ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन् ! अत्र अवतर अवतर संवौषट् । (इति आह्वाननम्) ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन् ! अत्र तिष्ठ तिष्ठ ठः ठः । (स्थापनम्) ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन्!अत्र मम सन्निहितो भव भव वषट्। (सन्निधिकरणम्) निरस्तकर्मसम्बन्धं सूक्ष्मं नित्यं निरामयम् । वन्देअहं परमात्मानममूर्तमनुपद्रवम् ॥ (सिद्ध यन्त्र की स्थापना) सिद्धौ निवासमनुगं परमात्मगम्यं, हान्यादिभावरहितं भववीतकायम् । रेवापगावरसरोयमुनोद्भवानां, नीरैर्यजे कलशगैर्वर-सिद्धचक्रम् ॥ ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा॥१॥ आनन्दकन्दजनकं घनकर्ममुक्तं, सम्यक्त्वशर्मगरिमं जननार्तिवीतम् । सौरभ्यवासित-भवं हरिचन्दनानां, गन्धैर्यजे परिमलैर्वरसिद्धचक्रम ॥ ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने भवातापविनाशनाय चन्दनं निर्वपामीति स्वाहा। सर्वावगाहनगुणं सुसमाधिनिष्ठं, सिद्धं स्वरूपनिपुणं कमलं विशालम् । सौगक्ध्यशालिवनशालिवराक्षतानां, पुजैर्यजे शशिनिभैर्वरसिद्धचक्रम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा । नित्यं स्वदेह-परिमाणमनादिसंज्ञं, द्रव्यानपेक्षममृतं मरणाद्यतीतम् । मन्दारकुन्दकमलादिवनस्पतीनां, पुष्पैर्यजे शुभतमैर्वरसिद्धचक्रम् ॥ ॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाण-विध्वंसनाय पुष्पाणि निर्वपामीति स्वाहा । 741
SR No.009243
Book TitleChovis Bhagwan Ki Pujaye Evam Anya Pujaye
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages798
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy