________________
पञ्चमो भवः
१७७
१७८
तन्मे भगवती शंसत्विदं किं जलधेस्तटम् । को द्वीपः कः प्रदेशश्च कुत्राश्रमपदं च वः ॥१७७।। मां वीक्ष्य वक्रदृष्टिः सा क्षणं तस्थौ ससाध्वसा । अदत्तप्रतिवाक्यायां गच्छन्त्यां तु व्यचिन्तयम् ॥१७८।। तापसीयं तरुण्येका पृच्छाम्यन्यं ततो नरम् । व्यावृत्तः पुनरप्येतां प्रष्टुं यावदवस्थितः ॥१७९।। तावत्करण्डकं मुक्त्वा वल्कं सा पर्यधात्पुनः । बभञ्जाऽङ्गं जजृम्भे च बबन्ध कबरी पुनः ॥१८०॥ तन्निरीक्ष्य किमेतेन विरुद्धालोकनेन मे । ध्यात्वेति तटिनी गत्वा फलाहारो मया दधे ॥१८१।। कालेनाथ नभोवृक्षफले कवलिते खौ । सुप्तोऽहं यामिनीशेषे स्वप्नमीदृक्षमैक्षिषि ॥१८२।। कयापि काञ्चनतरोरन्तिकस्थस्य मे स्त्रिया । दत्त्वा पुष्पस्त्रजं व्यक्तमित्युक्तं पुरतो मम ॥१८३।। यदियं पूर्वनिर्वृत्तोपनीता भवतः पुनः । गृहाण सा गृहीत्वाऽथ मया कण्ठे निवेशिता ॥१८॥ तदा सारसनादेन विबुद्धोऽहं व्यचिन्तयम् । नूनं स्वप्नोऽयमासन्नकन्यकालाभसूचकः ॥१८५॥ स कथं स्याद्वने मेऽथ दक्षिणं चक्षुरस्फुरत् । ततश्चेतसि निश्चिक्येऽवश्यमेष भविष्यति ॥१८६।। विलासराजधानी तु तां विलासवती विना । न मेऽन्यकन्यकालाभो बहुमानाय मानसे ॥१८७।। स्वप्नोऽपि पूर्वनिर्वृत्ता स्रगिति स्पष्ट एव मे । सा विलासवती मन्ये तापस्यां हि क्व विभ्रामाः ॥१८८।।
समरादित्यसंक्षेपः इति मे ध्यायतः पुण्यमिव सूर्यः समुद्ययौ । वीक्षमाणोऽथ बभ्राम तापसी तां वने वने ॥१८९|| माधवीश्लिष्टमाकन्दतलेऽन्येधुरहं स्थितः । इम ध्यायन्नशृणवं मसृणं मुर्मुरध्वनिम् ॥१९०।। ततो विवलितग्रीव आगच्छन्ती व्यलोकयम् । जरन्तीं तापसीमेकां तपःकृशतमामहम् ॥१९१।। नता सा सुचिरं जीव राजपुत्रेति मां जगौ । अहं दध्यौ कथं वेत्ति मां ज्ञानी वा मुनिर्जनः ॥१९२।। मत्प्रमार्जितभूमौ सोपविष्टा मामुवाच च । कुमार श्रूयतामस्ति वैताढ्यो नाम पर्वतः ॥१९३।। तत्र गन्धसमृद्धाख्ये पुरे विद्याधरेश्वरः । सहस्रबल इत्यासीत्तत्प्रिया तु शुभाभिधा ॥१९४।। तयोरेका बभूवाहं सुता मदनमञ्जरी । उदूढा पवनगतिनाम्ना खेचरभूमुजा ॥१९५।। गताभ्यामन्यदावाभ्यां नन्दने क्रीडितं चिरम् । मद्भर्ता तत्र विध्यातः क्षीणतैलप्रदीपवत् ॥१९६।। ततोऽहं तमसाक्रान्ता भ्रमन्ती भूतलेऽपतम् । उत्पतन्ती पुनविद्याभ्रंशादुदपतं न हि ॥१९७|| स्वापराधं स्मरन्त्यस्मि यावत्तावत्समाययौ । देवानन्दाऽभिधो विद्याधरः सत्तापसव्रतः ॥१९८|| स प्राह किमिदं वत्से मयोचे दैवचेष्टितम् । तेनोक्तं किं मयाप्युक्तमार्यपुत्रो व्यपद्यत ॥१९९||
१. मया प्रोक्तमार्यपुत्र ख ग घ ।