________________
पञ्चमो भवः
भालयित्वेति मां मय्यारूढे यानमसौ गतः । नावर्गलान्समुत्पाट्य यानपात्रमपूर्यत ॥ १५३॥ अकाले कालरूपोऽथ मेघकालः समापतत् । ततो वातेरितः पोतः खमारुह्याऽपतन्मुहुः || १५४॥ उत्पत्तोत्पत्य तन्मध्येवार्धि भूधरमूर्धनि । पोतोऽभज्यत निर्भाग्यनरस्येव मनोरथः || १५५ ॥
अहं तु फलकं प्राप्याऽहोरात्रात्तीरमागतः । सबाष्पाणीव वस्त्राणि निश्चोत्याऽशोषयं तटे ॥१५६॥
हग्मोहनपटः स्वानुभावात्तीमित एव न । मद्दुःखक्षपणे दक्षः स किं जाड्येन पीड्यते ॥ १५७ ॥ अहं पटस्याभेदेन विस्मितात्मैकया दिशा । जम्बूतरोरधः श्रान्तो विश्रान्तः सन् व्यचिन्तयम् ॥१५८।।
एवंविधां दशां प्राप्य जीव्यते यत्तदद्भुतम् ।
किं वा मे जीवितेनापि तेन वसुभूतिना || १५९ ॥
यद्वा कृतं विषादेन विचित्रा कर्मणां गतिः । यथाहं जीवितः सोऽपि यदि क्वापि भवेत्तथा ॥ १६० ॥
ध्यात्वेति क्षुत्तृषार्तोऽहं व्रजामि स्मोत्तरामुखः । नदीमेकामपश्यं च वनराजीविराजिताम् ॥ १६१ ॥
कृत्वा फलजलाहारं तत्र प्रेक्ष्य ससम्मदम् । सारसं सारसीयुक्तं निजचेतस्यचिन्तयम् ॥१६२॥ पक्षिणोऽमी वरं येऽत्र रमन्ते पुष्करे द्विधा । स्वकीयप्रियया युक्ता न त्वहं तद्वियोजितः ॥ १६३॥ इति ध्यायन्नहं सन्ध्याक्षणे स्मृतनमस्कृतिः । शिलाशय्यामवष्टभ्य सुप्तो वन्य इव द्विपः ॥ १६४॥
१७५
१७६
समरादित्यसंक्षेपः
निशाप्रान्ते विबुद्धोऽहं विहङ्गकलकूजितैः । कृतदेवगुरुध्यानो गच्छामि स्म वनाद्वनम् ॥ १६५ ॥ ततो गिरिसरित्तीरसोमालसिकतातले । अपश्यं रमणीयाभां रमणीपदपद्धतिम् ॥१६६॥ गच्छंस्तदनुसारेण कल्कवल्कलवाससम् । तप्तस्वर्णसवर्णाङ्गीमुद्भिन्ननवयौवनाम् ॥१६७॥ चित्तान्निर्वासितेनाऽपि रागेणाध्यासितां पदोः । करभोरुं नितम्बाढ्यां मध्येऽतिकृशतास्पृशम् ॥१६८॥ गभीरनाभीमुत्तुङ्गवक्षोजां मृदुवाहिकाम् । कम्बुकण्ठीं जपापुष्पाधरामच्छां कपोलयोः || १६९ || उत्तुङ्गनासिकावंशां त्रस्तसारङ्गलोचनाम् । अधिज्यचापभ्रूवल्लिमष्टमीन्दुनिभालिकाम् ॥१७०॥
पृष्ठदेशनिलीनेन वदनेन्दुद्युतिव्रजत् । भीतेनेवाऽन्धकारेण केशभारेण शोभिताम् ॥ १७१ ॥
तपस्विकन्यकामेकां वामहस्तात्तछाज्जिकाम् ।
पुष्पाणि पाणिनाऽन्येनोच्चिन्वतीं च व्यलोकयम् ॥ १७२॥ षड्भिःकुलकम्
दध्यौ च तां विलोक्याऽहं किमियं नृपकन्यका ।
सा विलासवती यद्वा क्वासौ क्व च वनस्थितिः ॥ १७३ ॥
मयीदं चिन्तयत्येव सा कृत्वा कुसुमोच्चयम् । यावद् बाला चचालाऽऽत्मतपोविपिनसंमुखी ॥१७४॥ स्मारं विकारं संगोप्य तावत्तामुपसृत्य च । प्रणम्य च जजल्पाऽहं तपस्ते वर्धतां शुभे ॥ १७५ ॥ श्वेतवीवास्यहं तामलिप्त्या यान् प्रति सिंहलम् । अन्तराभग्नपोतत्वादेकाकीह समागमम् ॥ १७६ ॥