________________
१९९
२००
पञ्चमो भवः द्रष्टुं प्रथमसंग्रामं धृतोत्कण्ठैः कुमारकैः । नियोगकारिभिः स्वस्वनियोगकरणोद्यतैः ।।४३६।। कलापकम् अथ दुर्जनवाणीव भेदिकास्तीक्ष्णभल्लयः । ढौक्यन्ते स्वर्णसंनाहाश्चेद्धौषधिगिरिप्रभाः ॥४३७|| महिषध्वजजिह्वाभाः प्रकट्यन्तेऽसियष्टः । सगुणा अपि वेश्यावद्वक्त्राश्चेष्वासवल्लयः ॥४३८|| दुर्जनालापवन्नर्मोद्घटनप्रवरा: शराः । इत्थमानीयमानेषु युद्धोपकरणेष्वलम् ॥४३९।। केनचिद्दयितास्पर्शरोधकं वर्म नादधे । केनाप्यशब्दं स्थूलाश्रु रुदत्यवमता वधूः ॥४४०॥ परेण विगलत्काञ्चीकङ्कणाश्रुजलाविला । एषोऽहमागतोऽस्मीति वदताऽऽश्वासिता प्रिया ॥४४१॥ अन्येन गच्छता पीतोद्धृताऽम्बु जलभाजनम् । अर्पितं काचिदस्राम्भ:पूर्णं चक्रे पिबन्त्यपि ॥४४२।। आपृच्छ्य गच्छति प्रेयस्यन्यया संज्ञया विना । अतुच्छमूर्छयाऽदशि स्वाऽनुरागस्य चेष्टितम् ॥४४३|| अनङ्गरतिसैन्यस्य वृत्तो वृत्तान्त ईदृशः । विद्याधराभ्यामागत्य ताभ्यां मम निवेदितः ॥४४४॥ अष्टभिः कुलकम् अथ भेरी ममादेशात्ताड्यमाना जगर्ज सा । स्फूर्जथुप्रलयाम्भोदयमहुङ्कारसोदरम् ॥४४५|| ततोऽङ्गरागताम्बूलमाल्यदानादिसोद्यमम् । पीयमानासवं मान्यमानयममहाभटम् ॥४४६।।
समरादित्यसंक्षेपः सज्ज्यमानविमानं च वर्ण्यमानविपक्षकम् । उदस्यमानकेतूच्चैदीयमानपताकिकम् ॥४४७।। निनदत्किङ्किणीजालमालं विचरचामरम् । रच्यमानमहाव्यूह मण्ड्यमानाऽतपत्रकम् ॥४४८।। उद्घष्टजयशब्दं च गीयमानोरुमङ्गलम् । भवत्पुण्याऽहनिर्घोषं संनद्धं च बलं मम ॥४४९॥ कलापकम् उत्पेतुः खेचरा: पेतुर्विमानानि समन्ततः । निवेशितो मया पद्मव्यूहश्च कटके निजे ॥४५०॥ अग्रतश्चण्डसिंहोऽभूद्वामे समरसेनकः । देवौषधो दक्षिणेन मतङ्गः पश्चिमेन च ॥४५१।। मध्ये पिङ्गलगान्धारौ स्थितोऽहं तु विहायसि । वायुवेगादिभिर्विद्याधरैर्युक्तो विमानगः ॥४५२।। अथाऽऽसन्ने रिपोः सैन्ये पृष्टोऽमितगतिर्मया । नामानि शकटव्यूहेऽरिभूपानां शशंस सः ॥४५३।। तुण्डे काञ्चनदंष्ट्रोऽयमशोको वामपार्श्वगः । दक्षिणे कालजिह्वाऽऽख्यो विरूपो मध्यतः स्थितः ॥४५४|| पृष्ठेऽनङ्गरतिर्देव ! दैवेन प्रत्यदुर्मतिः । इत्थं विरोधिनामानि ममाख्याति स्म खेचरः ॥४५५।। अथ जज्ञे रणं चण्डसिंहकाञ्चनदंष्ट्रयोः । नदत्संग्रामवादि बन्दिघोषितपूर्वजम् ॥४५६।। वल्गद्विद्याधरं मुच्यमानक्ष्वेडाभयङ्करम् । पतन्ति भल्लयो यत्र खलद्धिवदसौख्यदाः ॥४५७।। नाराचनिचयाः कालरात्रिनेत्रवर्तिदाः । यमसैरिभशृङ्गाभा गदा हृतमदा द्विषाम् ॥४५८।।
१. “शुद्धौषधि ख ग घ ।