________________
पञ्चमो भवः
त्रिभिर्दिनैरसौ सर्व विज्ञो विज्ञाय मूलतः । एत्य विज्ञपयाञ्चक्रेऽप्राकृतः प्रकृताञ्जलिः ॥ ४१४॥
स्वामिन्! समस्ति वैताढ्योत्तरश्रेणिविभूषणम् । चक्रवालोत्तरपदं पुरं श्रीरथनूपुरम् ||४१५ || देवी तत्पतिनाऽनङ्गरतिना खेचरेन्दुना । जानकीव दशास्येनाऽपहृता निहतात्मना ॥ ४१६ ।। देवी तु तद्गृहोद्यानमध्ये विद्याधरीवृता । अस्त्यखण्डितचारित्रा सहकारलतागृहे ||४१७|| मयाऽदृश्यत सा स्वामिगोत्रमन्त्राक्षरावलीम् । जपन्ती निजमोक्षाय योगिनीव वियोगिनी ||४१८ ||
तन्निशम्य मया वक्त्रं वसुभूतेर्व्यलोक्यत ।
स त्वभाषत दूतोऽस्य प्रेष्यते प्रथमं प्रभो ! ॥ ४१९ ॥
अथ विद्याधराः प्राहुरस्मानेवादिश प्रभो ! । यमदूता वयं तस्य दूतेनाऽन्येन किं ततः ॥ ४२० ॥
मयाऽथ जगदे दूतप्रेषणं नयभूषणम् । पश्चादपि हि हे वीरा युष्माभिर्जेस्यते पुनः ॥४२१||
मयैवं बोधयित्वा ताञ्शिक्षयित्वा च तत्क्षणात् । दूतः पवनगत्याख्यः स एव प्रैषि विद्विषे ||४२२ ||
स गत्वाऽनङ्गरतये कथयामास तत्तथा ।
यत्त्वां सनत्कुमाराऽऽख्यो वक्ति विद्याधराधिपः ॥४२३||
अज्ञानाद्यदसावस्मत्परोक्षे भवता हृता ।
तद्विलासवत मुञ्च नैतद्धि पुरुषव्रतम् ॥४२४||
१. येस्यते पुनः क ।
१९७
१९८
समरादित्यसंक्षेपः
अथाधिपत्यवैयात्यवशो नोज्झसि मे प्रियाम् । तत्कृतान्तनिशान्तस्य प्रवेशे प्रगुणो भव ॥ ४२५ ॥
अथाऽनङ्गतिः प्राह सोपहासं तदेव हि । मदीयशिक्षया पूर्वं यद् दूतेन किलोदितम् ॥४२६ ॥
अब्रवीच्चेति कस्कोऽत्र ब्रुवन्तं खेचरब्रुवम् ।
गले गृह्णीत दूतत्वं भूचरस्याऽऽचचार यः ||४२७॥ तदात्वेनाऽथ पवनगतिः कुद्धोऽस्य दुर्धियः । अंह्निप्रहारतो दन्तान्पातयन्नुत्पपात खे ॥ ४२८ ॥
आगत्य सत्यमेतत्स शशंस पुरतो मम । तमहं क्षयकालाऽब्द इव भीमोऽभ्यषेणयम् ॥४२९ ॥
मां निशम्य समायान्तमनङ्गतिना निजः । सेनानीः प्रैषि संख्यार्थं दुर्मुखो नाम संमुखः ॥४३०||
चण्डसिंहाऽभिधेनैष पातितो मम पत्तिना । सदैन्यमनशत् सैन्यमस्य त्रस्तैणयूथवत् ॥४३१||
मया द्वौ खेचरौ प्रेष्य द्विट् प्रोक्तो गच्छ वा वनम् । नो वा मदीयशस्त्राग्रप्रदीपे शलभो भव ॥ ४३२ ॥
ताभ्यामित्युदितोऽनङ्गरतिर्भेरीमवादयत् । एकोऽप्यनेकधा तस्याः सैनिकैः शुश्रुवे रवः ॥ ४३३||
प्रथमं भयवित्रस्तनयनैः कातरैर्नरैः । सैन्यस्त्रीभिः पुनर्भाविवियोगस्रवदश्रुभिः ||४३४||
भटैः कण्टकितै रूढस्फुटितव्रणकन्दरैः । स्वस्वामिसुकृताऽनृण्यसम्पदा संमदाकुलैः ||४३५||