SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वचोभिरात्मानमिवार्पयन्ती ननाम सा यातवती विरामम् । समर्थिततद्वचनो धनी सः तया समं मातृसमक्षमायात् ॥५५॥ विनीतयोर्मस्तकयोर्जनित्री करद्वयीं सा व्यमुचत् पवित्राम् । सुते च वध्वां च समानचित्तं निदर्शयन्ती निजमात्मनीनम् ॥५६॥ निजाङ्गनावेदनयाऽर्तिशाली नतः समापृच्छदुदन्तमस्याः । व्यथाहतो मातृमुखं ददर्श जलाल्पतायां शशिनं यथाऽब्धिः ॥५७।। व्यलोक्यतायं तनुजो जनन्या विगोपितान्तर्व्यथया सतोषम् । नदीव सा निर्झरसङ्गमेन परं प्रमोदं समवाप तेन ॥५८॥ जगाद सा पुत्र तवाऽऽश्रयेण पुराणि देशस्य विकासभाञ्जि । ममाऽऽश्रयेऽसि प्रगुणो महस्विन् ! अनन्तपुण्यं तदिदं मदीयम् ॥५९॥ तवैव पृच्छासु रतिर्ममाऽस्ति तव प्रशंसासु कृतार्थताऽस्ति । तवोन्नती मोदमहं वहामि सुतेषु सर्वस्वमिवास्ति मातुः ॥६०।। श्रीमाणिभद्रमहाकाव्यम् ३
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy