SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भवान् यथा वेत्ति मनो मदीयं तथा स्फुरदर्शन ! वेद्मि नाहम् । कथं नु कुर्यां भवतोऽपमानं त्वयाऽवबुद्धस्य निदर्शनेन ॥४९॥ सति त्वयि स्वर्गमिहैव मेऽस्ति त्वया विना नारकदुःखमत्र । अवेहि चित्तं भवदेकनिष्ठं सुयोग्यहेतुप्रथितव्यथार्तम् ॥५०॥ त्वदेकचिन्तार्चितचेतसश्चेत्तमोऽवलेपश्चिरदुःखदायी । कलङ्कमेतन मदीयमस्ति तदस्ति कस्येति च चिन्तय त्वम् ॥५१॥ वसन्ति नेत्रेषु मदीयभाषाः सुमस्य पत्रेषु सुवासितेव । त्वया विनाऽवैतु परः कथं तां मधुव्रतेनेव सुगन्धधाराम् ॥५२॥ त्वदङ्गणे कुञ्जरराजकुम्भजलैविनिधीतरजस्यहं चेद् । भवेयमेषा किल रङ्गरेखा तदापि सौभाग्यसुखं मम स्यात् ॥५३॥ हृदि त्वदीये प्रभवन्ति चिन्ता मया कृतास्ताः कृपया सहस्व । व्यथामहं मातृपदारविन्दे स्थिता जगामेति विदाङ्कुरुष्व ॥५४।। श्रीमाणिभद्रमहाकाव्यम् ३
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy