SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पराजितानां प्रतिपन्थिनां गजशिरस्स्थलेषु प्रतिपातितान्यरम् । सुयोधशस्त्राणि विशोधयेदियं जलं तदीयं न ततो हि शुष्यति ॥३७॥ जगद्विडम्बार्थममेयविस्तरं क्षितिप्रमित्यर्थमनन्तसीमकम् । यमावरोधार्थमलयदुर्गवत् नभोऽवलम्बार्थमिवोच्चगोपुरम् ॥३८॥ न पार्वतीशाननिवासभाजनं न वा महाकालगृहेण वर्जितम् । विरोधवच्चाप्यविरोधिबाधितं न काव्यमुख्यार्थमिवैकसद्रसम् ॥३९।। न मार्गबाधाकृतचित्तविभ्रमं न विभ्रमोद्भावकृदङ्गनावियुग । वियुक्तिबाधाभिरबद्धदम्पति पतिं क्षितेरिच्छितसम्पदर्पणम् ॥४०॥ नभस्यसङ्ख्यैविहगैश्शिखिध्वजैवनोत्थितैराश्रमनिर्गतैस्तथा । शुभङ्करैः स्पर्शसुखकरैः प्रगे विनाऽपि मेघैस्समुपावृतांशुमत् ॥४१॥ समृद्धिभिः साधु-सहस्रयोधिभिः सरोवरैः संसरणैः सभागृहैः । सुशोभितं सञ्जवनैः सरित्तटे पुरं समस्त्युज्जयिनीत्यभिख्यया ॥४२॥ पञ्चभि:कुलकम् श्रीमाणिभद्रमहाकाव्यम् १
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy