SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ उक्त्वा दृशामविषये विजहार देवी सूरिश्च साध्वसमना विषये बहिस्तात् । क्षेपे कृतेऽपि समयस्य भवन्ति यस्मादापत्तयः प्रतिविधायकदुर्निवारा: ॥४९।। पादैरतीत्य बहुभूमिमवाप सूरिनीरन्ध्रकाननमसङ्ख्यतरुप्रपञ्चम् । भीतेरगोचरतया शुभशान्तिगेहं तद् वीक्ष्य धैर्यवृतयैष तपस्ययाऽस्थात् ॥५०॥ निर्मीलिताक्षमचलाङ्गमनङ्गुलीकमिप्साविवजितमनारतमिष्टमन्त्रम् । विस्तीर्णपर्णवटवृक्षमुपाश्रितेन ध्यातं निरातपमनागतचन्द्रिकञ्च ॥५१।। गुञ्जद्विहङ्गममुदर्कनिवर्णनाय पत्रैश्च नृत्यदिव भाविसमागताय । आसीद् वनं गहनमापदपह्नवाय वातैस्समीरितमलं गुरुगौरवाय ॥५२॥ उन्मादितेऽथ करवीरसुखासिकाभि यावुवाह चलचम्पकवल्लिगन्धः । स्पर्शी नवश्च वरवंशिकवासितेन सञ्चारितः प्रतिपदं मरुतां कणेषु ॥५३॥ आयान् समीपमिव मङ्गलघर्घरीभि?षो रुराव मधुरो गजघण्टिकायाः । भूमिश्शनस्थ निराकुलपादपातै रोमाञ्चितेव समभूल्लघुकम्पिता च ॥५४।। १४६ श्रीमाणिभद्रमहाकाव्यम् ८
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy