SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३२४ अष्टसहस्रीतात्पर्यविवरणम् तदप्यसद्, यदसतः समुदाहृतमिति प्रतिपादनात् । यथैव हि स्वलक्षणमनिर्देश्यमित्यवाच्यतैकान्ते वक्तुमशक्यं तथा प्रत्यक्ष कल्पनापोढमित्यपि, प्रत्यक्षेऽभिलापसंसर्गाभावे विकल्पानुत्पत्तिप्रसङ्गस्य निवेदितत्वात्, तत्सद्भावे सविकल्पकत्वसिद्धः ॥१३॥ तदेवं स्वामिसमन्तभद्रभानवः स्फुटतरविलसदकलङ्कन्यायगभस्तिभिरपहस्तितसमस्तभावैकान्तादिपरमतध्वान्तसन्ततयोऽपि परात्मपक्षनिराकरणसमर्थनायत्तं जयमादिशता भगवताप्तेन किं पुनर्मे शासनं प्रसिद्धेन न बाध्यते इति स्पष्टं पृष्टा इवाहुः कथञ्चित्ते सदेवेष्टं कथञ्चिदसदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा ॥१४॥ चशब्दात्सदवाच्यमेव कथञ्चिदसदवाच्यमेव तदुभयावाच्यमेवेष्टं ते शासनमिति समुच्चीयते, प्रश्नवशादेकत्र वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभङ्गी, इति वचनात् [ ] । नययोगादिति वचनान्नयवाक्यानि सप्तैवेति दर्शयन्ति, - अष्टसहस्त्रीतात्पर्यविवरणम् सर्वथा सत्यत्वप्रतिक्षेपस्य कर्तुमशक्यत्वात् । अथ प्रमाणराज एव प्रपञ्चस्य सर्वथाऽनिर्वचनीयत्वं ब्रह्मणश्च सर्वथा सत्यत्वमाज्ञपयतीति न वयं तदाज्ञातिक्रमे प्रभविष्णव इति चेत्, न तस्य स्वानुपयुक्तसत्ताप्रतिक्षेपिशुद्धर्जुसूत्रानुगृहीतशुद्धात्मद्रव्यसत्ताग्राहिसङ्ग्रहनयस्वरूपत्वात्तत्तात्पर्यावबोधे दोषलवस्याप्यभावात्, ईदृशतात्पर्यमपुरस्कृत्य प्रवृत्तो वेदान्तदुर्नयो वसन्तराज एव न प्रमाणराज इति वयं जानीमः ॥ इत्येतैर्नयदूषणैर्मतभिदामत्तेभघण्टारणत्कारैस्त्रस्तसमस्तवादितुरगैः किं कर्णकोलाहलैः । यत्तु प्रस्तुतवस्तुबोधनविधौ धत्ते निराकाङ्क्षतां, बूमो मानमनन्तबोधगदितं तत्सप्तभङ्ग्यात्मकम् ॥१३॥ [शार्दूलविक्रीडितम्] ॥ सप्तभङ्गीविमर्शः॥ प्रश्नवशादिति एकत्र वस्तुनि सत्त्वासत्त्वादिसप्तधर्मप्रकारकशाब्दबोधजनकतापर्याप्त्यधिकरणं वाक्यं सप्तभङ्गीति लक्षणे तात्पर्यम्, विरोधस्फूर्ती वाक्यस्याबोधकत्वेनैवा
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy