SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 दयितानां परिदेवनम्शालेः शिलापरीरम्भारम्भकेलि विलोक्य ताः । दधिरे विधुरास्तस्य, दयिताः परिदेवनम् ॥ ९७ ॥ शाले: मुनेः शिलापरीम्भाऽऽरम्भकेलि-गिरिशिलाऽऽलिङ्गनोपक्रमक्रीडां विलोक्य विधुराः व्याकुला: ताः तस्य शाले. दयिता: शालिप्रियाः परिदेवनं-विलापं दधिरे-चक्रुः ॥ ९७ ॥ हा प्राणवल्लभ प्रौढपुण्यैरपि सुदुर्लभ ! । हा रूपविजितानङ्ग ! हहा जीवितजीवितम् ॥ ९८ ॥ हा प्राणवल्लभ ! प्रौढपुण्यैरपि-प्रकृष्ठपुण्यकर्मभिरपि सुदुर्लभ ! रूपविजितानङ्ग-रूपेण विजित: अनङ्गः काम: येन तत्सम्बोधने । हहा ! जीवितजीवितं-जीवितस्यापि जीवितम् ! ॥ ९८ ॥ गोभद्रस्य कुलेऽस्माकं, सुकृतस्त्वमवातरः । जीमूतवाहनस्येव, गेहे कल्पद्रुमोऽर्थिनाम् ॥ ९९ ॥ अस्माकं सुकृतैः पुण्यैः त्वं गोभद्रस्य कुले अवातर:-अवतीर्णवान् । क: इव ? अर्थिनां-याचकानां पुण्यैरिव । जीमूतवाहनस्य मेघवाहनस्य-इन्द्रस्य, इन्द्रो हि मेघानाविश्य वर्षतीति कविसमयः । 'गेहे' गृहे स्वर्गे । 'कल्पद्रुमः इव' सुरतरुरिव ॥ ९९ ॥ अन्यथा क्व वयं नाथ ! मर्त्यलोकैककीटिकाः । भोगभङ्गी क्व सा दिव्याऽस्माकं स्वप्नेऽपि दुर्लभा ॥१०॥ नाथ हे स्वामिन् ! अन्यथा मर्त्यलोकैककीटिका:-मर्त्यलोके एककीटिकारूपाः वयं क्व? अस्माकं स्वप्नेऽपि दुर्लभा सा भोगभङ्गी-दिव्यविलासविच्छित्तिः क्व ? ॥ १० ॥ ARRARAUAYA8A82828282828282888 ॥३२२॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy