SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 आदेशकारिणी तस्याः, केवलं प्रातिवेश्मिकी । अभिज्ञानेन केनाहं, प्रार्थये लाभमद्भुतम् ॥ ९३ ॥ तस्या:-धन्यायाः आदेशकारिणी केवलं प्रतिवेश्मिकी अहं केन अभिज्ञानेन चिह्न अद्भुतं लाभं-धर्मलाभं प्रार्थये वाञ्छे ? दधिदानेन धन्या धर्मलाभ प्राप्ता किन्तु अहं केन अभिज्ञानेन धर्मलाभं प्रार्थये ? मया न किमपि दध्यादिकं दत्तमिति भावः ॥ ९३ ॥ तथापि समतासिन्धो ! समसज्जनदुर्जन ! । वासीचन्दनकल्पस्त्व-मिति मामनुकम्पय ॥ ९४ ॥ तथापि समतासिन्धो समतारससमुद्र ! समसज्जनदुर्जन सज्जनदुर्जनेषु सम-समानचित्त ! हे मुने ! त्वं वासीचन्दनकल्पः वास्या छेदकेषु चन्दनेन च लेपकेषु कल्प:-तुल्यमनोवृत्तिः असि, इति मां अनुकम्पय-मयि दयां कुरु ॥ ९५ ॥ हीनाया दीननेत्राया, देहि प्रत्युत्तरं मम । निजाम्बिकां हहा वत्स ! सम्भावय दृशापि माम् ॥ ९५ ॥ दीननेत्रायाः हीनाया: मम प्रत्युत्तरं देहि । हहा ! वत्स ! निजाम्बिकां मां दृशाऽपि-नयनेनाऽपि सम्भावयविलोकय ॥ ९५ ॥ एवं विविधभङ्गीभिर्भद्रा प्ररुदिता सती । रोदसी रोदयामास, मृगपक्षिगणाकुलाम् ॥ ९६ ॥ एवं विविधभङ्गीभिः, विविधाभि: भङ्गीभिः प्रकारैः । 'प्ररुदिता' प्रकर्षेण रुदिता सती भद्रा । 'मृगपक्षिगणाकुलं' पशुपक्षिगणैः आकुलां-सङ्कीर्णाम् । 'रोदसी' द्यावापृथिव्यौ । 'रोदयामास' रोदयति स्म ॥ ९६ ॥ 82828282828282828282828282828282888 ॥३२१॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy