SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 'श्रीमद्धर्मसुनासीरनवनासीर वीर' धर्मदेवेन्द्रसेनायां नव्याग्रयाने वीर हे मुने ! । 'ते' तव । 'सर्वदा' सदा । 'नवाः' नूतनाः । 'रागद्वेषादयः दानवाः' अशुभ भावरूपा: दैत्याः । 'दूरे' दूरे गताः ॥ १९ ॥ विक्रान्तेन त्वया क्रान्तं, मोहदुर्गं सुदुर्गमम् । बाढं प्रौढं समारूढा, मादृशाः कातरा अपि ॥ २० ॥ 'विक्रान्तेन' पराक्रमिणा । त्वया । 'सुदुर्ग' अतिदुर्लङ्घम् । 'मोहदुर्ग' मोहराजस्य विषमवप्रम् । 'क्रान्तं' लङ्घितम् । 'मादृशाः' कातराः अपि भीरखोऽपि । 'बाढं' अत्यर्थम् । प्रौढताशालिनं भवन्तं । 'समारूढाः' समाश्रिताः ॥ २० ॥ सद्यस्तदन्तरङ्गारिचक्रे समितिनिर्जिते । आवयोर्दधिभोज्येन, संजज्ञे वीरपाणकम् ॥ २१ ॥ 'तत्' तस्मात् । 'सद्यः' सपदि । 'अन्तरङ्गारिचक्रे' भावशत्रुसमूहे । 'समितिनिजिते' समितिगुप्तिभिः जिते । शत्रुपक्षे-सङ्ग्रामैः जिते । 'समिति-सङ्गरौ' इति हैम्याम् । 'दधिभोज्येन' दनः भोजनेन । आवयोः वीरपाणकं-वीराणां पानम् । 'वृत्ते भाविनि वा युद्धे, पानं स्याद् वीरपाणकम्' इति हैम्याम् । पानस्य भावकरणे ।२।३।६९|| इति णत्वम् । 'संजज्ञे' जातम् । दनः मङ्गलत्वात् ॥ २१ ॥ श्रीगौतमं पुरोधाय, श्रीवीराग्रे नृपानिव । तटे कृत्वा कषायांश्च, जयश्रीरुपयम्यते ॥ २२ ॥ 'श्रीवीराग्रे' श्रीवीरस्य प्रभोः अग्रे । श्रीगौतमं पुरोधाय अग्रे कृत्वा पुरोहितं कृत्वा च । 'नृपानिव कषायान्' शत्रुभूपानिव क्रोधादीन् । 'तटे कृत्वा' अध: कृत्वा । 'जयश्री:' विजयलक्ष्मीः । 'उपयम्यते' परिणीयते ॥ २२ ॥ प्रमोदादभ्यधात् धन्यः,शालिः क्वापि न खण्ड्यते ।सत्त्वसार! त्वया सत्या,लौकिकी सा कृता श्रुतिः।।२३ ॥ 82828282828282828282828282828282888 ॥३०४॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy