SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8888888 8282828282828282828282828282 उत्तरदिशा कार्यम् । इतः मेरुः उत्तरदिशि वर्तते तत्र गन्तुकामः यथा उत्तरदिशमेव वाञ्छति तथा अहमपि उत्तरक्रियामनशनक्रियामेव समीहे इत्यर्थः ॥ १५ ॥ प्रयोगमिव निर्वेदवेदस्येति विमृश्य सः । श्रेयः पुरीपथाध्वन्यं, धन्यं मुनिमुवाच च ॥ १६ ॥ इति 'निर्वेदवेदस्य' वैराग्यवेदस्य । 'प्रयोगमिव' प्रणवं ओङ्कारमिव अनशनप्रयोगम् । “विमृश्य' चिन्तयित्वा । 'सः' शालिमुनिः । 'श्रेयःपुरीपथाध्वन्यं' मुक्तिनगरीमार्गप्रवासिनम् । धन्यं मुनिम् । 'उवाच' कथितवान् ॥ १६ ॥ धन्यानामपि धान्यानामिव दुःखै घरट्टकैः । दलितानां भवेत्प्रायो, धर्माङ्करप्ररोहणा ॥ १७ ॥ 'घरट्टकैः' घरट्टतुल्यैः । दुःखैः । 'दलितानां' पिष्टानाम् । 'धान्यानामिव' ब्रीहीणामिव । 'धन्यानामपि' पुण्यवतामपि । प्रायः धर्माङ्करप्ररोहणा भवेत् । दुःखितानां भवति प्रायेण धर्ममार्गे गतिः यथा घरट्रैः पिष्टानां धान्यानां सुपात्रदानात् दानधर्माङ्करप्ररोहणा भवति ॥ १७ ॥ धूर्तराज महामोहं, विप्रतार्य पुनर्भवान् । सुधी विसाधयामास, वर्करेण महावृषम् ॥ १८ ॥ 'धूर्तराज' वञ्चकमुख्यम् । महामोहं विप्रतार्य-वञ्चयित्वा । 'भवान्' तत्रभवान् । 'सुधीः' सुमतिः । 'वर्करेण' लीलया। 'खेला ललनं वर्करोऽपि च' इति हैम्याम् । पक्षे-अजापुत्रेण । 'बकरो' इति भाषायाम् । 'महावृषं' महापुण्यम् । पक्षे-महावृषभम् । 'विसाधयामास' विशेषेण साधितवान् । यथा कोऽपि अजापुत्रं (बर्करम्) दत्त्वा महावृषभं गृह्णीयात् तथा भवताऽपि महापुण्यं लीलया अर्जयित्वा मोहराजः वञ्चित:-इति धन्यमुनि प्रति शालिमुनिकथनम् ॥ १८ ॥ श्रीमद्धर्मसुनासीरनवनासीर वीर ! ते । रोगद्वेषादयो दूरे, दानवाः सर्वदा नवाः ॥ १९ ॥ 828282828282828282828282828282828482 ॥३०३॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy