SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 कुत्र सा कुक्कुटग्रामवासव्यासविडम्बना ? । क्व मे सुपर्वदेशीयगुणगौराङ्गपौरता ? ॥ ४ ॥ 'कुक्कुटग्रामवासव्यासविडम्बना' कुक्कुटग्रामे कुत्सितग्रामे वासव्यासात्-निवासप्रपञ्चात् विडम्बना-कदर्थना। कुत्र सा? 'सुपर्वदेशीयगुणगौराङ्गपौरता' सुपर्वदेशीया देवतुल्या गुणगौराङ्गा गुणोज्ज्वल शरीरा पौरता-नागरिकता क्व मे-मम? ॥ ४ ॥ पराभवपदं न्यूना, सर्वथा कण्टकाशना । सदाभीरीदृगाभीरी, माता मळ्व मे पुरा ॥ ५ ॥ 'पुरा' पूर्वं सङ्गमभवे । 'मे माता' मम जननी धन्या । 'सर्वथा पराभवस्थानं' सर्वप्रकारेण अभिभव-स्थानम् । 'न्यूना' तुच्छा । 'कण्टकाशना' कण्टकमयाहार भक्षणा । 'सदाभी:' सदा भयवती । 'ईदृगाभीरी' इत्थम्भूता मथितहारिका । मञ्जा इव । अजा इव । अभूत् । अजाऽपि कण्टकभक्षिका सदा भीता तुच्छा पराभवस्थानं च भवति ॥ ५ ॥ इदानीं जननी राजवल्लभा दुर्लभान् पुनः । वधूकृत्यविधौ रत्नकम्बलानप्यपीपटत् ॥ ६ ॥ इदानी इह भवे जननी-भद्रा पुनः । 'वधूकृत्यविधौ' पुत्रवधूकार्यकरणे । 'राजवल्लभादुर्लभान्' राजराज्ञीभिः चेल्लणादिभिः दुर्लभान् । रत्नकम्बलानपि । 'अपीपटत्' पाटयामास ॥ ६ ॥ पितुर्नामाऽपि नाज्ञायि, तत्र दूरेऽस्तु दर्शनम् । एहिरेयाहिराऽकारि, गोभद्रेणाऽत्र मत्कृते ॥ ७ ॥ 'तत्र' सङ्गमभवे । पितुः-जनकस्य । नाम अपि । 'न अज्ञायि' न ज्ञातम् । दर्शनं तु दूरे अस्तु । 'अत्र' इहभवे। 'मत्कृते' मदर्थम् । 'गोभद्रेण' पित्रा देवेन । 'एहिरेयाहिरा' गमनागमनक्रिया । 'अकारि' कृता ॥ ७ ॥ पशुदासस्तदाऽभूवं, ग्रामादपि बहिश्चरः । पण्यमज्ञासिषं भूपं, त्विदानी ललितेश्वरः ॥ ८ ॥ 828282828282828282828282828282828282 ॥३००॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy