SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ॥ अथ सप्तमः प्रक्रमः ॥ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 श्रीशालेः साधुमूर्धन्यामनुत्तरफलोदयाम् । विचारयन्तु चतुरा, मङ्गल्यामक्षतश्रियम् ॥ १ ॥ 'चतुराः' हे प्रवीणजनाः ! । 'श्रीशालेः' श्री शालिभद्रमुनेः । पक्षे शालिधान्यस्य । 'साधुमूर्धन्यां' मुनिमुख्याम् । पक्षे-शोभनधान्येषु प्रधानाम् । 'अनुत्तरफलोदयां' अनुत्तर विमानफलोदयाम् । पक्षे अद्वितीयफलोदयाम् । 'मङ्गल्यां' मङ्गलरूरपाम् । 'अक्षतश्रियं' अखण्डां मोक्षलक्ष्मीम् । पक्षे-शालिधान्यशोभाम् । 'विचारयन्तु' चिन्तयन्तु ॥ १ ॥ शालि-मुनेः अनशन-विषयणी विचारणाअथ श्रीवीरवाक्यानां, शालिभद्रमुनिः स्मरन् । विममर्श मनस्येवमषडक्षीणमन्त्रवित् ॥ २ ॥ अथ श्री वीरवाक्यानां-श्रीवीरवाक्यानि, अत्र कर्मार्थे षष्ठी, स्मृत्यर्थदयेशः ।।२।१०॥ इति वैकल्पिकी कर्मसंज्ञा । 'स्मरन' चिन्तयन् । शालिभद्रमुनिः । 'अषडक्षीणमन्त्रवित्' चतुष्कर्णमन्त्रणावेत्ता । 'मनसि' हृदये । “एवं' अग्रे वक्ष्यमाणम्। 'विममर्श' विमृशति स्म ॥ २ ॥ प्रविश्य गर्भे नेपथ्यं, परावृत्य पुनः पुनः । नरीनति नटः प्राणी, कटरे भवनाटके ॥ ३ ॥ 'कटरे' आश्चर्यद्योतकमव्ययम् । 'नट:' नटसमः प्राणी, गर्भ-गर्भरूपायां जवनिकायाम् । 'प्रविश्य' मध्ये गत्वा । 'नेपथ्यं' वेषम् । पुनः पुनः परावृत्य । 'भवनाटके' संसार-रङ्गभूमौ । 'नरीनति' वारं वारं नृत्यति ॥ ३ ॥ 828282828282828282828282828282828282 ॥ २९९ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy