SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 82828ksa 8282828282828282828282828282 'नास्तिके' अश्रद्धालौ । 'शकुनाः' शुभाशुभसूचकानि निमित्तानि न स्युः । 'कुब्जे' तृणकुटीरके । 'वास्तुदोषाः' शिल्पशास्त्रोक्तदूषणानि न स्युः। 'पशौ' गवादिके । 'छलं' माया न गण्यते । 'नि:स्वे' दरिद्रे । आहारदोषाः न स्युः। तथा । 'असात्त्विके' सत्त्वहीने नरे । वैराग्यं न स्यात् ॥ ९४ ॥ शास्त्रं वचस्विनां शस्त्रं, बलिना महतां निजम् । सर्वं पथ्यं दृढाग्नीनां सर्वं निर्वेदकृत् सताम् ॥ १५ ॥ 'वचस्विनां' वचनपटूनाम् । 'शास्त्रं' सर्वं शास्त्रं भवति । 'महतां' शक्तिशालिनाम् । 'शस्त्रं' सर्वं प्रहरणं भवति । 'महतां' महापुरुषाणाम् । 'निजं' सर्वं स्वकीयं भवति । यदुक्तम्-'अयं' निजः परो वेति, गणना लघुचेतसाम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥ १ ॥ 'दृढाग्नीनां' बलिजठराग्नीनाम् ॥ 'सर्व' पक्वापक्वान्नम् । 'पथ्यं' पथ्यकारि भवति । 'सतां' सज्जनानाम् । 'सर्व' जगत् । 'निर्वेदकृत्' वैराग्यकारि भवति ॥ ९५ ॥ इत्यम्ब ! मम वैराग्य-कारणं भवतारणम् । आकर्ण्यतां त्वया तूर्णं, वर्ण्यमानं सकर्णया ॥ ९६ ॥ इति । अम्ब' हे जननि ! 'सकर्णया' प्रबुद्धया । त्वया । भवतारणं' संसारपारकारि । 'वर्ण्यमानं' अभिधीयमानम्। मम वैराग्यकारणं-निर्वेदनिबन्धनम् । 'तूर्णं' क्षिप्रम् । 'आकर्ण्यतां' श्रूयताम् ॥ ९६ ।। मिताशङ्किपदन्यासं, गार्हस्थ्यं दिव्यमेव मे । तप्तायोगोलकल्पेऽस्मिन्, शुद्धिः सांशयिकी परम् ॥ ९७॥ 'मिताशङ्किपदन्यासं' मितं-स्तोकं आशङ्की सशङ्क: पदन्यास: पादस्थापनम् यत्र तत्, कदाचिदेव शालिभद्रस्य गमनात् । 'गार्हस्थ्यं' गृहस्थता । 'मे' मम । 'दिव्यमेव' परममेव अस्ति । 'परं' परन्तु । 'तप्तायोगोलकल्पे' तप्तलोहगोलकतुल्ये। 'अस्मिन्' गार्हस्थ्ये । 'शुद्धिः' कर्मक्षयरूपा आत्मनः शुद्धिः । 'सांशयिकी' संशयवती अस्ति ॥ ९७ ॥ satasa8RSR88RSONASRSASASASRSANASNA ॥२१८॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy