SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 अथ । 'गौभद्रिणा' गोभद्रपुत्रेण शालिना । अत इञ् ।६।१।३१।। इति इञ् । गोभद्रस्य अपत्यं पुमान् गौभद्रिः तेन । 'धर्मरङ्गमहारङ्ग-भूमिरङ्गावलीकला' धर्मरङ्गः धर्मरागः एव महारङ्गभूमिः मण्डपभूमिः तस्यां ये रङ्गाः हर्षाः तेषां आवलीश्रेणिः तया कला-मधुरा । 'भद्रा' मङ्गला । 'गौः' वाणी । भद्रां प्रति । 'अभ्यधीयत' उच्यते स्म ॥ ९१॥ अम्बाऽऽत्मनीनमुक्तं य-दर्वाचीनतयैव तत् । समीचीनं पराचीनावस्थायाः प्रतिपन्थि तत् ॥ ९२ ॥ 'अम्ब' हे मात: ! । 'आत्मनीनं' आत्मने हितं आत्मनीनम् । यद् उक्तं-अभिहितम् । तत् । 'अर्वाचीनतयैव' इहलोकापेक्षया एव । 'समीचीनं' सत्यम् । किन्तु । 'पराचीनावस्थायाः' परलोकावस्थायाः । तत् प्रतिपन्थि विरोधि । अस्तीति शेषः ॥ ९२ ॥ मातः ! कल्याणवार्तेयं, यदाशा दिग्गजेऽङ्गजे । पुण्येरनन्तरूपा त्वं, ध्रुवश्रीव उत्तरा ॥ ९३ ॥ 'मातः' हे अम्ब ! 'दिग्गजे' सार्वभौमाख्यदिग्गजतुल्ये । 'अङ्गजे' पुत्रे । 'यत् आशा' य: मनोरथः, उत्तरा दिक् च । तत् । 'इयं कल्याणवार्ता' कुशलभाषितमस्ति । किन्तु । 'पुण्यैः' सुकृतैः । 'अनन्तरूपा' अविनश्वररूपा । 'ध्रुवश्रीः' अचलश्रीः । उत्तरदिक्पक्षे ध्रुवतारकलक्ष्मी: । 'उत्तरा भव' उत्तमा भव । पक्षे-उत्तरा दिग् भव । हे मातः दिग्गजतुल्ये अङ्गजे आशां त्यक्त्वा ध्रुवश्रीयुता उत्तरदिक्तुल्या भव । ध्रुवतारक: किल अचलः तथा त्वमपि पुण्यैः मोक्षेऽनन्तकालं यावत् प्रतिष्ठिता अचला भव इत्यर्थः ॥ ९३ ।। नास्तिके शकुनाः कुब्जे, वास्तुदोषाः पशौ च्छलम् । निः स्वे नाहारदोषाः स्युः, न वैराग्यमसात्त्विके ॥९४ ॥ ARRARAUAYA8A82828282828282888 ॥ २१७॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy