SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 पुरः श्रीवीरनाथस्य, दीक्षामादाय सादरम् । चतुर्थपुरुषार्थश्री-साम्राज्यं साधये यथा ॥ २२ ॥ 'साम्प्रतं' अधुना । 'पुत्रमित्रादिसम्बन्धाऽप्रतिबन्धिनः' पुत्रमित्रादीनां सम्बन्धं प्रति अप्रतिबन्धिनः । रागरहितस्य । मोहशत्रु प्रति । 'अभ्यमित्रीणतां' यस्तु शत्रून् प्रति पुरः याति सोऽभ्यमित्रीण: तस्य भावः तत्ता ताम् । “यियासतः' यातुमिच्छोः ॥ २० ॥ मम प्रोत्साहने उल्लासप्रदाने । 'छेका' कुशला । 'गेहिनि !' हे प्रिये ! । तृष्णाहरणनिष्णाता' भवत्येव वीरपत्नी युद्धं प्रति प्रस्थितस्य पत्युः पुत्रादितृष्णाविनाश-कुशला । त्वम् । 'तीव्र' उग्रम् । 'वीरपत्नीव्रतं' वीरस्य पत्नी तस्याः व्रतम् । 'प्रादुर्भावय' प्रकटय ॥ २१ ॥ यथा 'श्रीवीरनाथस्य' भगवत: श्रीमहावीरस्य । 'पुरः' अग्रे । 'सादरं' आदरपूर्वकम् ! 'दीक्षां' प्रव्रज्याम् । 'आदाय' गृहीत्वा । 'चतुर्थपुरुषार्थश्री-साम्राज्यं' मोक्षलक्ष्मीसाम्राज्यम् । 'साधये' जित्वा आत्मसात् करोमि ॥ २२ ॥ जगाद गद्गदं भद्राथाश्रुमिश्रविलोचना । हृदयालुर्दयालुस्त्वमदयालुरिवाऽभवः ॥ २३ ॥ अथ अश्रुमिश्रविलोचना बाष्पायितनयना भद्रा । 'गद्गदं' गद्गदाक्षरम् । 'जगाद' उवाच । 'त्वं हृदयालुः' सहृदयः । 'दयालुरपि' कृपावानपि । 'अदयालुरिव' निष्कृप इव । 'अभवः' जाताऽसि ॥ २३ ॥ एकपत्नीव्रतरतेः, सत्यं भावयतस्तव । व्रतं वेश्मनि वा वासः, पुण्यायैव प्रकल्पते ॥ २४ ॥ 'सत्यं सत्यतत्त्वम् । 'भावयतः' चिन्तयतः । 'एकपत्नीव्रतरतेः' एकपल्याः व्रतं तस्मिन् रतिः यस्य तस्य तव । व्रतं' दीक्षा । 'वेश्मनि वा' गेहे वा । 'वासः' निवास: । 'पुण्यायैव' सुकृतायैव । 'प्रकल्पते' भवति । अयं भाव:-हे प्रियतम ! त्वं सत्यनिष्ठोऽसि । अतः दीक्षायां गृहस्थावस्थायां वा निवसतस्ते पुण्यमेव भविष्यति इति पति प्रति भद्रोक्तिः ॥ २४ ॥ 828282828282828282828282828282828282 ॥ १०१॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy