SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रक्रमः शालिभद्र महाकाव्यम् 8282828282828282828282828282828282 परीक्षिताम् । धनुःपक्षेऽपि एवमेव, वंशयष्ट्यां रेखाः विद्यन्ते एव ॥ १६ ॥ 'चापयष्टिवत्' कार्मुकयष्टिवत् । 'मार्गणान्' याचकान् । पक्षे-शरान् । 'बिभ्राणां' त्वां भद्रां अवाप्य । 'सीमन्तिनि' हे स्त्रि ! । अहं किल । 'धर्माभ्यासवतां' धर्माध्ययनवताम्। पक्षे-शस्त्रधर्माभ्यासवताम् । 'सीमा' अवधिः । अभवम् । धनुःयष्टिसमां त्वामवाप्य हे भद्रे ! अहं परम धार्मिकः जातः इति गोभद्रस्य भद्रां प्रति कथनम् ॥ १७ ॥ त्वं च पुण्यप्रतिष्ठाना, फलकान्तगुणोच्चया । असङ्ख्यगुणलाभार्थ-मङ्गिनी मङ्गिनीव मे ॥ १८ ॥ त्वं च मे । 'पुण्यप्रतिष्ठाना' पुण्यं पवित्रं प्रतिष्ठानं प्रसिद्धिः यस्याः सा । नौपक्षे-पुण्यं पवित्रं प्रतिष्ठानं उपवेशनस्थानं यस्याः सा । 'फलकान्तगुणोच्चया' फलरूपा ये कान्ता गुणाः ते एव उच्चयो नीवी यावत् मूलधनं यस्याः सा । पक्षेफलकस्य अन्ते गुणानां रज्जूनां उच्चयः समुदायः यस्यां सा । 'मङिनीव' नौः इव त्वम् । 'अङ्गिनी' सधर्मिणी । 'असङ्ख्यगुणलाभार्थं' मम अनेकगुणप्राप्त्यर्थम् । पक्षे-असङ्ख्यगुण कलान्तरा(व्याज)द्यधिकफलार्थम् । असि ॥ १८ ॥ त्वया सुधानुवादिन्या, रससिद्ध्येव मूर्तया । साधुसिद्धः प्रसिद्धोऽस्मि, दाता भोक्ताऽप्ययाचकः ॥ १९ ॥ 'सुधानुवादिन्या' अमृतानुकारिण्या । 'मूर्तया' मूर्तिमत्या । 'रससिद्धया इव' सुवर्णादिरससिद्ध्या इव । त्वया । अहं दाता भोक्ताऽपि अयाचकः सर्वेभ्यो-यच्छन् स्वयं भुञ्जानोऽपि केभ्योऽपि याचनां न करोमि । 'साधुसिद्धः' साधुषु सज्जनेषु सिद्धः प्रतीतः । पक्षे-सिद्धः साधुरिव । प्रसिद्धोऽस्मि । भवत्येव सिद्धसाधुसमीपे रससिद्धिः ॥ १९ ॥ साम्प्रतं पुत्रमित्रादि-सम्बन्धाप्रतिबन्धिनः । अभ्यमित्रीणतां मोह-शत्रु प्रति यियासतः ॥ २० ॥ तृष्णाहरणनिष्णाता, छेका प्रोत्साहने मम । वीरपत्नीव्रतं तीव्र, प्रादुर्भावय गेहिनि ! ॥ २१ ॥ ARRARAUAYA8A82828282828282888 ॥१०० ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy