SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४४६] પતંજલિનાં યોગસૂત્રો [. ४ सू. १८ સ્વપ્રકાશ નથી, એમ મન પણ સ્વપ્રકાશ નથી, એમ સમજવું જોઈએ. આ વિષયમાં અગ્નિ દૃષ્ટાન્ત નથી. અગ્નિ પોતાના અપ્રકાશિત સ્વરૂપને પ્રકાશિત કરતો (જાણતો) નથી. આવો પ્રકાશ પણ પ્રકાશ્ય અને પ્રકાશકના સંયોગ સમયે દેખાય છે. સ્વરૂપ માત્રમાં સંયોગ ન હોઈ શકે. વળી ચિત્ત સ્વપ્રકાશ છે એ શબ્દોનો અર્થ એ કોઈનાથી પણ અગ્રાહ્ય (અજ્ઞેય) છે, એવો થાય. જેમ આકાશ સ્વપ્રતિષ્ઠ છે, એટલે પરપ્રતિષ્ઠ નથી એવો અર્થ થાય છે. પોતાની બુદ્ધિના પ્રચારના પ્રતિસંવેદનથી પ્રાણીઓની પ્રવૃત્તિ જોવામાં આવે છે. “હું કુદ્ધ છું, હું ભયભીત છું, અમુક પદાર્થમાં મારો રાગ છે, અમુકમાં ક્રોધ છે,” વગેરે. આવું પુરુષ પોતાની બુદ્ધિને ન જાણતો હોય તો બને નહીં. ૧૯ तत्त्ववैशारदी अत्र वैनाशिकमुत्थापयति-स्यादाशङ्केति । अयमर्थः - स्यादेतदेवं यदि चित्तमात्मनो विषय: स्यात् । अपि तु स्वप्रकाशमेतद्विषयाभासं पूर्वचित्तं प्रतीत्य समुत्पन्नम् । तत्कुतः पुरुषस्य सदाज्ञातविषयत्वम् ? कुतस्तरां वाऽपरिणामितया परिणामिनश्चित्ताद्धेद इति ? न तत्स्वाभासं दृश्यत्वात् । भवेदेतदेवं यदि स्वसंवेदनं चित्तं स्यात् । न त्वेतदस्ति । तद्धि परिणामितया नीलादिवदनुभवव्याप्यम् । यच्चानुभवव्याप्यं न तत्स्वाभासं भवितुमर्हति । स्वात्मनिवृत्तिविरोधात् । न हि तदेव क्रिया च कर्म च कारकं च । न हि पाकः पच्यते, छिदा वा छिद्यते । पुरुषस्त्वपरिणामी नानुभवकर्मेति नास्मिन्स्वयंप्रकाशता न युज्यते । अपराधीनप्रकाशतो ह्यस्य स्वयम्प्रकाशता, नानुभवकर्मतः । तस्माद् दृश्यत्वाद्दर्शनकर्म चित्तं न स्वाभासम् । आत्मप्रकाशप्रतिबिम्बतयैव चित्तस्य तवृत्तिविषयाः प्रकाशन्त इति भावः । ननु दृश्योऽग्निः स्वयंप्रकाशश्च । न हि यथा घटादयोऽग्निना व्यज्यन्त एवमग्निरग्न्यन्तरेणेत्यत आह- न चाग्निरत्रेति । कस्मात् ? न हीति । मा नामाग्निरग्न्यन्तरात्प्राकाशिष्ट विज्ञानात्तु प्रकाशत इति न स्वयं प्रकाशत इति न व्यभिचार इत्यर्थः । प्रकाशश्चायमिति । अयमिति पुरुषस्वभावात्प्रकाशाद्वयवच्छिनत्ति । क्रियारूप: प्रकाश इति यावत् । एतदुक्तं भवति- या या क्रिया सा सा सर्वा कर्तृकरणकर्मसम्बन्धेन दृष्टा । यथा पाको दृष्टश्चैत्राग्नितण्डुलसम्बन्धेन । तथा प्रकाशोऽपि कियेति तयापि तथा भवितव्यम् । सम्बन्धश्च भेदाश्रयो नाभेदे सम्भवतीत्यर्थः । किं च स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः । स्यादेतत्-मा भूद् ग्राह्यं चित्तम् । न हि
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy