SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ચોથો દૈવલ્યપાઇ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥१॥ જન્મ, ઔષધિ, મંત્ર, તપ અને સમાધિથી સિદ્ધિઓ ઉત્પન થાય छे. १. भाष्य देहान्तरिता जन्मना सिद्धिः । ओषधिभिरसुरभवनेषु रसायनेनेत्येवमादि । मन्त्रैराकाशगमनाणिमादिलाभः । तपसा संकल्पसिद्धिः कामरूपी यत्र तत्र कामग इत्येवमादि । समाधिजाः सिद्धयो व्याख्याताः ॥१॥ જન્મથી મળતી સિદ્ધિ દેહાન્તર (બીજો દેહ) પ્રાપ્ત થવા માત્રથી મળે છે. ઔષધિથી થતી સિદ્ધિ અસુરોના ભવનોમાં રસાયણનું સેવન કરવા વગેરેથી મળે છે. મંત્રોથી આકાશગમન, અણિમા વગેરે સિદ્ધિઓ પ્રાપ્ત થાય છે. તપથી સંકલ્પ સિદ્ધિ મળતાં, સ્વેચ્છાથી ગમે ત્યાં જઈ શકે છે, તેમજ અન્ય સિદ્ધિઓ પણ મળે છે. સમાધિથી થતી સિદ્ધિઓ અગાઉ કહી छ. १ तत्त्ववैशारदी तदेवं प्रथमद्वितीयतृतीयपादैः समाधितत्साधनतद्विभूतयः प्राधान्येन व्युत्पादिताः। इतरत्तु प्रासङ्गिकमौपोद्घातिकं चोक्तम् । इहेदानीं तद्धेतुकं कैवल्यं व्युत्पादनीयम् । न चैतत्कैवल्यभागीयं चित्तं परलोकं च परलोकिनं विज्ञानातिरिकं चित्तकरणकसुखाद्यात्मकशब्दाधुपभोक्तारमात्मानं च प्रसंख्यानपरमकाष्ठां च विना व्युत्पाद्य शक्यं वक्तुमिति तदेतत्सर्वमत्र पादे व्युत्पादनीयमितरच्च प्रसङ्गादुपोद्घाताद्वा । तत्र प्रथमं सिद्धचित्तेषु कैवल्यभागीयं चित्तं निर्धारयितुकामः पञ्चतयीं सिद्धिमाहजन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः । व्याचष्टे-देहान्तरितेति । स्वर्गोंपभोगभागीयात्कर्मणो मनुष्यजातीयाचरितात्कुतश्चिन्निमित्ताल्लब्धपरिपाकात्क्वचिद्देवनिकाये जातमात्रस्यैव दिव्यदेहान्तरिता सिद्धिरणिमाद्या भवतीति । ओषधिसिद्धिमाहअसुरभवनेष्विति । मनुष्यो हि कुतश्चिन्निमित्तादसुरभवनमुपसंप्राप्तः कमनीयाभिरसुरकन्याभिरुपनीतं रसायनमुपयुज्याजरामरत्वमन्याश्च सिद्धीरासादयति । इहैव वा
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy