SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ પા. ૩ સૂ. ૩૯] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ उ उ भाष्य समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनम् । तस्य क्रिया पञ्चतयीप्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात्समान आनाभिवृत्तिः । अपनयनादपान आपादतलवृत्ति: । उन्नयनादुदान आशिरोवृत्तिः । व्यापी व्यान इति । एषां प्रधानः प्राणः । उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति, तां वशित्वेन प्रतिपद्यते ॥ ३९ ॥ પ્રાણ વગેરેથી લક્ષિત થતી, બધી ઇન્દ્રિયોની પ્રવૃત્તિ જીવન છે. એ પાંચ રીતે કાર્ય કરે છે. પ્રાણ મુખ અને નાસિકાથી હૃદય સુધી ગતિશીલ રહે છે. સમાનપણે રસાદિ બધે પહોંચાડતો સમાન નાભિ સુધી ગતિ કરે છે. અપનયન-દૂર કરનાર હોવાથી અપાન પગનાં તળિયાં સુધી ગતિ કરે છે. ઉપરની તરફ ઉદાન મસ્તક સુધી ગતિ કરે છે. વ્યાન બધે વ્યાપીને રહે છે. આ બધામાં પ્રાણ મુખ્ય છે. ઉદાનજયથી યોગી પાણી, કાદવ, કાંટા વગેરેથી અસ્પૃષ્ટ રહે છે, અને મરણવખતે ઉત્ક્રાન્તિ-સ્વેચ્છાથી ગતિ કરે છે. ૩૯ तत्त्व वैशारदी उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च । समस्तेन्द्रियवृत्तिर्जीवनम् । प्राणादिलक्षणा प्राणादयो लक्षणं यस्याः सा तथोक्ता । द्वयीन्द्रियाणां वृत्तिर्बाह्याभ्यन्तरी च । बाह्या रूपाद्यालोचनलक्षणा । आभ्यन्तरी तु जीवनम् । स हि प्रयत्नभेदः शरीरोपगृहीतमारुतक्रियाभेदहेतुः । सर्वकरणसाधारणः । यथाहु: सामान्यकरणवृत्तिः प्राणाद्या वायवः वञ्च । (सां. का. २९) इति । तैरस्य लक्षणीयत्वात्तस्य प्रयत्नस्य क्रिया कार्यं पञ्चतयी । प्राण आ नासिकाग्रादा च हृदयादवस्थितः । अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयन्समानः । आ हृदयादा च नाभेरस्यावस्थानम् । मूत्रपुरीषगर्भादीनामपनयनहेतुरपानः । आ नाभेरा च पादतलादस्य वृत्ति: । उन्नयनादूर्ध्वं नयनाद्रसादीनामुदानः । आ नासिकाग्रादा च शिरसो वृत्तिरस्य । व्यापी व्यानः । एषामुक्तानां प्रधानं प्राणः । तदुत्क्रमे सर्वोत्क्रमश्रुतेः 'प्राणमुत्क्रामन्तमनु सर्वे प्राणा उत्क्रामन्ति" (बृहदा. ४।४।२) इति तदेवं प्राणादीनां क्रियास्थानभेदेन भेदं प्रतिपाद्य सूत्रार्थमवधारयति - उदानजयादिति । उदा कृतसंयमस्तज्जयाज्जलादिभिर्न प्रतिहन्यते । उत्क्रान्तिश्चार्चिरादिमार्गेण भवति प्रायणकाले । तस्मात्तामुत्क्रान्ति वशित्वेन प्रतिपद्यते । प्राणादिसंयमात्तद्विजये विभूतय एता: क्रियास्थानविजयादिभेदात्प्रतिपत्तव्याः ॥ ३९ ॥ I
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy