________________
१४४]
પતંજલિનાં યોગસૂત્રો
[पा. २ सू. ५
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥५॥
अनित्य, अपवित्र, दु:ख खने अनात्मामां नित्य, पवित्र, सुख અને આત્મબુદ્ધિ અવિદ્યા છે. ५
भाष्य
अनित्ये कार्ये नित्यख्यातिः तद्यथा- ध्रुवा पृथिवी, ध्रुवा सचन्द्रतारका द्यौः, अमृता दिवौकस इति । तथाऽशुचौ परमबीभत्से काये शुचिख्यातिः, उक्तं च
स्थानाद्बीजादुपष्टम्भान्निःस्यन्दान्निधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥
इत्यशुचौ शुचिख्यातिर्दृश्यते । नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति कस्य केनाभिसंबन्धो, भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति । एतेनापुण्ये पुण्यप्रत्यय - स्तथैवानर्थे चार्थप्रत्ययो व्याख्यातः ।
तथा दुःखे सुखख्यातिं वक्ष्यति परिणामतापसंस्कारदुःखैगुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः (२।१५) इति । तत्र सुखख्यातिरविद्या । तथानात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे, पुरुषोपकरणे वा मनस्यनात्मन्यात्ख्यातिरति । तथैतदत्रोक्तम्-व्यक्तमव्यक्तं वा सत्त्वमात्मत्वेनाभिप्रतीत्य तस्य संपदमनुनन्दत्यात्मसंपदं मन्वानस्तस्य व्यापदमनुशोचत्यात्मव्यापदं मन्यमानः स सर्वोऽप्रतिबुद्ध इति ।
एषा चतुष्पदा भवत्यविद्यामूलमस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति । तस्याश्चामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम् । यथा नामित्रो मित्राभावो न मित्रमात्रं किं तु तद्विरुद्धः सपत्नः । तथाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव ताभ्यामन्यद्वस्त्वन्तरम् । एवमविद्या न प्रमाणं न प्रमाणाभावः किं तु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥५॥