SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) स्थिरतां लभते नैव, आत्मनो ध्यानमन्तरा ॥ २५ ॥ चित्ते वशीकृते सर्व विजानीयादशीकृतम् । वशीकरणाय चित्तस्य, सर्वोपायाः प्रजल्पिताः ॥ २६ ॥ ज्ञानदर्शनचारित्र, वीर्यानन्दनिकेतनः। आत्मारामः सदा ध्येयः, सर्वशक्तिमयः सदा ॥ २७ ॥ स्वप्नवद् बाह्यभावेषु, ममत्वं नैव युज्यते। तथैव द्वेष्यता तत्र, ज्ञानिनो नैव युज्यते ॥ २८ ॥ नैव स्त्रीशत्रुभोज्यादि, पदार्था मोहहेतुकाः । मोहबुद्ध्या स्वयं तत्र, द्विषन् रज्यन् विमुह्यति ॥ २९ ॥ . रागस्य हेतवो ये ये, भजन्ते द्वेषहेतुताम् । सानुकूलप्रतिकूल,-मनोवृत्तिप्रसङ्गतः ॥३०॥ रागरूपा मनोवृत्ति, द्वेषरूपा तथैव च । रागद्वेषविनिर्मुक्तं, मनो मोक्षस्य कारणम् ॥ ३१ ॥ अज्ञानेन स्वयं जीवो, बाह्यभावेषु रज्यति । ज्ञानात्मा तु विवेकेन, जडेषु नैव रज्यति ॥ ३२॥ अहिंसायाः प्रतिष्ठायां, वैरत्याग इति श्रुतिः। साम्यभावप्रतिष्ठायां, प्रत्ययस्तस्य जायते ॥ ३३ ॥ साम्यात्मा नैव बध्नाति, कर्माणि किन्तु छेदकृत् । साम्यात्मा पूर्णयोगी स्याद्, योगशास्त्रेषु सम्मतम् ॥३४॥ शुद्धानन्दस्य भोक्ता स्या-त्समात्मा भगवगिरा। समत्वं सर्वभावेषु, जीवाजीवेषु सम्मतम् ।। ३५ ॥ समत्वमात्मनो धर्मो, रागरोषविवर्जनात् । समुल्लसति जीवेषु, तत्त्वसम्मुखदृष्टिषु ॥ ३६ ॥ घोरकर्माणि कुर्वाणा, जना यान्ति परां गतिम् । साम्यभावप्रतापेन, तस्मात्तं प्राप्तुमुत्सहे ॥ ३७ ॥ साम्यादात्मस्थिरीभावो, वीर्योल्लासः प्रवर्धते । क्षपकश्रेणिमारुह्य, भव्यो याति शिवंगृहम् ॥ ३८ ॥ For Private And Personal Use Only
SR No.008688
Book TitleYogadipak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy