SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७ ) मीयन्ते सर्वतोभावा, अनेन ब्रह्मचक्षुषा। आत्मेति कथ्यते तेन, सम्यगव्युत्पत्तियोगतः ॥ १२ ॥ विज्ञानमात्मनो धर्मः, स्वान्यभावप्रकाशकम् । आत्मनो ज्ञानपर्याये, लोकाऽलोकं विलीयते ॥ १३ ॥ आत्मनः सर्वद्रव्येषु, श्रेष्ठता भाविताशुभा। सहजानन्दभावेन, चारित्रमद्भुतं स्फुटम् ॥ १४ ॥ समितिगुप्तियोगेन, शुद्धधर्मसमुद्भवः । सुखदुःखप्रसङ्गेषु, समश्चारित्रवान्स्मृतः ॥ १५ ॥ समो हर्पविषादेषु, समो मानापमानयोः । स्तुतिनिन्दादिभावेषु, समश्चारित्रयोगिराट् ॥ १६ ॥ ज्ञानगर्भितवैराग्य-मुत्तमं प्राप्य योगिराट् । अक्षरं निर्मलं शुद्धं, परमात्मपदं भजेत् ॥ १७ ॥ ममत्वं ज्ञानिनः किं स्याद्, हेयादेयविवेकतः । ममत्वोपाधिनिर्मुक्त, आत्मा मुक्तः प्रकीर्तितः ॥ १८ ॥ मूर्छा परिग्रहः ख्यात, उक्तं सूत्रेषु सूरिभिः । सूत्रसम्मतयोगेन, आत्मा सद्धर्ममाप्नुयात् ॥ १९ ॥ बाह्यकार्याणि कुर्वन् सन् , मोहचेष्टां परित्यजन् । भावचारित्रयोगेन, मुच्यते सर्वकर्मतः ॥ २० ॥ संत्यक्तसर्वसंकल्पो, निर्विकल्पसमाधिताम् । संप्राप्य तात्त्विकानन्द-मनुते संयतः स्वयम् ॥ २१ ॥ मनःस्थैर्य समासाद्य, दत्तलक्ष्योपयोगकः । भवे मुक्तौ समत्वाच्च, स्वादते समतामृतम् ॥ २२ ॥ साम्यामृतप्रसादेन, जीवन्मुक्तोऽभिधीयते । सम्यग्दृष्टिगुणस्थाने, सापेक्षातो घटेत सः ॥ २३ ॥ शुक्लेन परिणामेन, साम्यानन्दो विवर्द्धते । ध्याता सम्यग् विजानाति, ध्यानं हि ज्ञानयोगतः॥२४॥ मनश्चञ्चलतां प्राप्य, यत्रतत्र परिभ्रमत् । यो. म्. 3 For Private And Personal Use Only
SR No.008688
Book TitleYogadipak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages290
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy