SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " नई अध्याऽऽत्मज्ञानलाभार्थ, माऽऽत्मज्ञानाऽधिकारिणाम् शुद्धोपयोगनाम्नाऽयं, कृतो ग्रन्थो मया शुभः ॥७८७ ॥ कृतेशुद्धोपयोगेयत् फलंभूतं च तेन तत् विश्वस्थ सर्वजीवानां, शान्तिर्भवतुशाश्वती ॥ ७८८ ॥ शुद्धोपयोगशास्त्रेण, सर्वसंघोन्नतिर्भवेत् सर्वविश्वस्थपापानि, नश्यन्तु तत्प्रवृत्तितः ॥ ७८९ ॥ शुद्धोपयोगशास्त्रस्य, श्रोतारो ये च वाचकाः सद्गुर्वाज्ञापराः शान्तिं, यान्तुपूर्णसुखश्रियम् ॥७९०॥ शुद्धोपयोगनाम्नोऽस्य ग्रन्थस्यमर्मवेदिनः गीतार्थ गुरु सेवायाः - कर्तारो यान्तुतत्फलम् ॥७९१॥ गीतार्थ गुरुभक्तानां श्रोतृवाचकदेहिनाम् शुभाशीर्मेभवत्वेवं, स्वर्गसिद्धिप्रदायिका ॥७९२|| सर्वसंघोन्नतिर्भूया, च्छान्तिः सर्वत्रवर्तताम् शान्तिस्तुष्टिश्चपुष्टिश्च भूयात्सर्वत्रमङ्गलम् ॥७९३ ॥ सर्वेजीवाः सुखं यान्तु दुःखं नश्यतु देहिनाम् पुण्यकर्माणि वर्धन्तां, नश्यन्तु पापवृत्तयः ॥ ७९४ ॥ पापकर्माणि नश्यन्तु, प्रादुर्भवन्तु धर्मिणः विश्वोद्धारस्यकर्तारः प्रादुर्भवन्तु सूरयः ॥ ७९५ ।। शुद्धोपयोगबोधेन, लोका भवन्तु धर्मिणः अधर्मदुःखनाशोऽस्तु धर्मः सर्वत्र वर्धताम् ॥ ७९६ ।। योगिनो ज्ञानिनः सन्तो विश्वशान्तिप्रदायकाः प्रादुर्भवन्तु राजानो, मन्त्रिणो धर्ममूर्तयः ॥ ७९७|| विश्वशान्तिप्रदं सत्यं, धर्ममङ्गलशर्मदम् सर्वधर्मोत्तमं पूर्ण, जयताज्जैनशासनम् ॥ ७९८ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy