SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " ૬૧ जानन्तिज्ञानिनः सत्यं, कर्मणो गहनां गतिम् ; प्राप्ते सुखे च दुःखे ते नैव मुयन्ति मोहतः ॥ ७१५ ॥ कर्म कस्तिकमैव, शुद्धनिश्चयदृष्टितः कर्मकर्ताsस्ति चाऽऽत्मैव, नया व्यवहारतः ॥७१६ ॥ रागद्वेषादिकं भाव, कर्माऽस्ति जिनभाषितम् अष्टधाकर्मणां भेदा, द्रव्यकर्माsस्ति निश्चिनु ॥७१७॥ दिव्यमौदारिकं देहं, नोकर्म कर्मबन्धने; हेतुश्च कर्ममुक्त्यर्थ, मोहिनां ज्ञानिनांक्रमात् ॥७१८ ॥ अन्तर्मुहूर्तवेलायां, सर्वकर्मक्षयङ्करः, आत्मज्ञानीभवत्येव, शुद्धोपयोगशक्तितः ॥७१९॥ जीवेऽजीवे न तुष्यन्ति द्विष्यन्ति न जडाऽऽत्मसु; कर्मरूपं हि विज्ञाय; ज्ञानिनः समदर्शिनः ॥ ७२०॥ तीव्रनिकाचितव्यक्त- प्रारब्धकर्मवेदिनः नवकर्म नबध्नन्ति, स्वाऽऽत्मोपयोगधारिणः ॥७२१ ॥ उच्चत्वंनचनीचत्वं, शुभाशुभेषुकर्मसु; अध्याऽऽत्मज्ञानिनोज्ञात्वा, वर्तन्ते कर्मभोगिनः ॥७२२ ॥ औदयिकशुभेनैव, निजमुच्चा न जानते; 3 औयिका शुभेनैव, नीचा निजं न जानते ॥७२३॥ कर्मजन्योच्चनीचत्वाद्, भिन्नजानन्ति ते निजम् ; आत्मास्वभावतोनीच उच्चोन चाऽगुरुलघुः ॥७२४ ॥ ऐवं विज्ञायवर्तन्ते, शुद्धोपयोगिनोजनाः द्वेषिणामुपरिप्रेम, कारुण्यभावधारकाः ॥७२५ ॥ शत्रु शत्रुबुद्धिर्न, प्रेम्णा द्वेषोपशामकाः स्वस्याsशुभप्रकर्तारं नाऽन्यंजानन्ति कोविदाः ॥७२६ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy