________________
Shri Mahavir Jain Aradhana Kendra
3
www.kobatirth.org
૨૯
मुक्तिः साम्यंविनानैव, सर्वदर्शनधर्मिणाम् ;
साम्यं विना प्रभोः प्राप्ति, नस्ति शुद्धाऽऽत्मनः खलु ॥३३१॥ साम्यमेव सतां धर्मः, सात्त्विकप्रकृतेः परः साम्योपयोगतो मुक्ति, जीवन्मुक्तमहात्मनाम् ॥३३२॥ साम्योपयोगमा लम्ब्य, याता यास्यन्ति यान्ति च; अनन्तदेहिनो मुक्ति, तत्र कश्चिन्न संशयः ॥ ३३३ ॥ सेवाभक्त्यादियागेभ्यः श्रेष्ठोऽनन्तगुणो महान् ; समो योगः स्वभावेन समासेव्यो महात्मभिः ॥ ३३४॥ समो यस्सर्वभूतेषु सर्वजातीयधर्मिषु
समो यः शत्रुमित्रेषु, शुभाशुभेषु कर्मसु ॥ ३३५ ॥ शुभाशुभ विपाकेषु यः समः साक्षिभाववान्; क्षणमात्रमपि व्यक्तः स्यात् सः शुद्धोपयोगवान् ॥ ३३६ ॥ एकक्षणिकशुद्धोय, उपयोगो यदा भवेत् :
तदाऽनन्तभवैर्बद्धं कर्म नश्यति तत्क्षणात् ॥३३७॥
"
"
Acharya Shri Kailassagarsuri Gyanmandir
अन्तर्मुहूर्त कालोन, शुद्धोपयोगशक्तितः जायते केवलज्ञान, मात्मनि सत्यनिश्चयः ॥ ३३८ ॥ समः सर्वत उत्कृष्टः शुद्धोपयोग इष्यते; बहिरन्तः परब्रह्म, भासते ब्रह्मयोगिनाम् ॥ ३३९ ॥ मनोवाक्काययोगानां व्यापारकारकाश्चते: प्रारब्धाऽघातिकर्माणः सर्वत्र समसाक्षिणः ॥ ३४० ॥ असंख्यभेदतो ज्ञेयः क्षयोपशमभाववान् : शुद्धोपयोग वाssस्मैव भव्यजीवेषु सम्प्रति ॥ ३४९ ॥ ज्ञानदर्शनचारित्र - परीणाममयः शुभः
क्षायोपशमिको व्यक्तः शुद्धयोगोऽप्रमादिनाम् ॥ ३४२ ॥
For Private And Personal Use Only