SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३७ Acharya Shri Kailassagarsuri Gyanmandir " आत्मज्ञानमहाशस्त्रं, छिनत्ति कर्मपादपान् । सर्वजातिभयौवेषु, स्वाऽऽत्मज्ञानी हि निर्भयः ॥ ९५ ॥ शुद्धात्मानं विना सर्व, मिथ्या हृदि निबोधत । शुद्धात्मनि रमन्ते ते, क्रियावन्तोऽपि निष्क्रियाः ॥९६॥ तनुभिन्नो भवेदाऽऽत्मा, आत्मतोऽन्यद्वषुः सदा । आत्मज्ञानाति विज्ञाय, देहनाशे न शोचति ॥९७॥ आत्मानुभवयोगेन देहाध्यासलयो भवेत् । देहाध्यासलयेनैव जायते प्रभुदर्शनम् ॥९८॥ आत्मपराssत्मनोर्भेदो - भासते न यदा हृदि । सोऽहं सोऽहं भवेज्ज्ञानं, निर्विकल्पं ततः पुनः ॥ ९९ ॥ निर्विकल्पदशायां तु, मत्तद् भेदो न भासते । जायते केवलज्ञानं, ततः शुद्धाऽऽत्मयोगतः ॥ १०० ॥ पञ्चद्रव्याssत्मकं विश्वं, सर्व जानाति केवली । अघातिनामकर्माद्यं, भुनक्ति परमार्थकृत् ॥१०१॥ सर्वज्ञः पूर्णशुद्धात्मा, कृतकृत्यो भवेत् स्वतः। जीवानामुपकाराय ददाति धर्मदेशनाम् ॥ १०२ ॥ देहनाशे भवेत् पूर्णः, स्वतंत्रः पूर्णशक्तिमान् । शुद्धपर्यायवान् सिद्धः, पूर्णानन्दमयः प्रभुः ॥ १०३ ॥ ज्ञात्वैवं जैनधर्मस्य, रहस्यं श्रावकास्तथा । साधवः स्वाधिकारेण यतन्ते मुक्तिसिद्धये ॥ १०४॥ अन्तर्मुखोपयोगेन, सर्वकर्तव्यकारिणः । सर्वोन्नतिपदं यान्ति, स्वाश्रयिणो विवेकिनः ॥ १०५ ॥ बाह्यमुखोपयोगेन, कर्मलेपः प्रजायते । रागद्वेषपरीणाम - भावकर्मस्वरूपिणा ॥ १०६ ॥ For Private And Personal Use Only
SR No.008664
Book TitleShuddhopayog
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1924
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy